________________
महापातदोषफलम् ]
विवाहप्रकरणम् ६ ।
२८१
ग्रहाणां क्रांतिसाम्ये । यथा 'जलज ' शब्दस्य रूढिः कमले, नतु भेकादौ । क्रांतिम ग्रहाणां दक्षिणोत्तरवृत्ते गमनम् । या च सूर्यस्य क्रांतिः सा यदा चंद्रक्रांत्या तुल्या स्यात्स पातमध्यकालः । तत्रोत्सर्गतो रवींदुकांत्योः समानत्वं भुसाम्ये सति भवति । भुजो नाम - - 'ज्यूनं भुजः स्याध्यधिकेन हीनं भा च भार्धादधिकं विभार्धम् । नवाधिकेनोनितमर्कभं च' इति लक्षणलक्षितः । तत्साम्यं तु सूर्याचंद्रमसोर्योगे षड्राशितुल्ये द्वादशराशितुल्ये वा सति भवति । अत एव ग्रंथकृता तादृशा योगा एव पठिताः । यदा तु भुजस्य न्यूनाधिकत्वं तदा 'दिवौकसोरंतरलिनिकोवाद्वत्योर्वियोगेन हृतात्' इत्यादिना प्रकारेण ग्रहयुतिवत् भुजसाम्यमानेयम् । ननु भुजसाम्यमेव क्रांतिसाम्यसाधकं चेत्किं गणितग्रंथोक्तेन बह्वायासनाध्येन पाताध्यायेन ? उच्यते— 'विक्षेपाय क्रमैकत्वे क्रांतिविक्षेपसंयुता । दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता ॥' इति सूर्यसिद्धांतवाक्या सूर्यव्यतिरिक्तानां ग्रहाणां शरसंस्कृता क्रांतिः स्पष्टेत्युच्यते तादृशी चंद्रक्रांतिश्चेत्सूर्यकांत्या समा यस्मिन्काले स्यात्स स्पष्टः पातमध्यकालः,तत्र तादृशक्रांतिसाम्यानयनस्याति कष्टसाध्यत्वात्तदध्यायोक्तिः सार्थिकैव । एवं ग्रंथकर्त्रा सूर्याचंद्रमसो: क्रांतिसाम्यमेव दोषोऽभिहितः – 'पंचास्याजौ' इत्यादिकथनं किमर्थमिति चेदुच्यते- 'विना सपातेंदु मिहायनांशकैर्युतो रविः शीतकरश्च गृह्यते । समापमत्वे व्यतिपातवैष्टताह्वयास्तदैक्ये रसभेऽर्क क्रमात् ॥' इति भास्कराचार्योक्तिमंगीकृत्य सामान्यतः क्रांतिसाम्यदिवसस्य शीघ्रोपस्थित्यर्थं भुजसाम्यप्रतिपादकत्वात् । नन्वेवं भुजसाम्यमेव चेत् क्रांतिसाम्योत्पादकं भवेत्तर्हि यत्र सूर्यचंद्रयोः षड्रराशिमितमंतरं द्वादशराशिमितमंतरं वा यथा मेषतुलयोर्मेषयोर्वा तत्रापि भुजसाम्यस्य तादवस्थ्यात् क्रांतिसाम्यं भवत्येवेति मासमध्ये महापातचतुष्टयं वक्तव्यं स्यात्तत्कुतो हेतोनक्तं ग्रंथकृता ? इति चेत्, अत्रोच्यते - योगोत्पन्ने हि पाते मुनिभिः स्नानदानादिकं फलमुक्तमतः स एव महापातो गृह्यते नतु वियोगोत्पन्ने उक्तमतः स न गृह्यते । तदुक्तं बसिष्ठेन स्वसिद्धांते – 'चक्रे चक्रार्धबुल्ये वा कियद्भागाधिकोनके । सायनार्केदुयोगे चेत्तदा पातस्य संभवः ॥ शुभमंगलकर्माणि लोकानां च विनाशयेत् । स्नानदानादिकास्तत्र जपश्राद्धादिकाः क्रियाः ॥ कदापि कुरुते मर्त्यः सुमहत्फलमश्रुते । सूर्यग्रहे गुरुक्षेत्रे कोटिस्वर्णार्पणे फलम् ॥ तत्फलं लभते पाते स्नानश्राद्धजपादिना । उत्पत्तौ लक्षगुणितं भ्रमणे कोटिसंगुणम् । पातेऽथार्बुदसंगुण्यं पतिते कृतमक्षयम् ॥' इति । तथा सूर्यसिद्धांतेऽपि - 'एकायनगतौ स्यातां सूर्याचंद्रमसौ यदा । तद्युत मंडले क्रांत्योस्तुल्यत्वे वैधृताभिधः ॥ विपरीतायनगतौ चंद्राक क्रांतिलिप्तिकाः । समास्तदा व्यतीपातो भगणार्धं तयोर्युतौ ॥ तुल्यांशजालसंपर्कान्तयोस्तु प्रवहाहतः । तादृक्क्रोधोद्भवो वह्निर्लोकाभावाय जायते ॥' इति । अत एवांतरोत्पन्नक्रांतिसाम्ये महापातदोषो नास्त्येव । तदुक्तं गणेशदैवज्ञैः'पूर्वं तत्स्यात्पातमध्यं द्वितीयं पूर्वैनक्तं तद्यतो नातिदुष्टम्' इति । अनेनैवाश