________________
२८२
मुहूर्तचिंतामणिः। [एकार्गलो दोषः येन वसिष्ठेन स्वसंहितायामुक्तम्-'शास्त्रात्समानीतमहातिपातः सवैश्तो हति वधूं वरं च। त्रिःसप्तवारानिव जामदम्यक्रोधोऽचिरात्क्षात्रकुलं समस्तम् ॥' इति । शास्त्रागणितशास्त्रोक्तान्महापाताधिकारादित्यर्थः । तत्र हि योगादेव महापातस्याऽऽनीतत्वात्तस्यैव दोषत्वं नान्यस्येत्यर्थादुक्तं भवति । किंच पंचांगीयोऽपि योगः सूर्याचंद्रमसोर्योगादेव साधितः स्पष्टाधिकारे। अतस्तस्मादेव महापातोऽपि साधयितुमुचित एव । अथात्र ज्ञाते क्रांतिसाम्ये कस्मिन्काले मंगलकृत्यं निषिद्धमित्येष विशेषविचारो 'न्यूनाधिमासकुलिकप्रहरार्धपात' (१।३४) इत्यत्रास्माभिरभिहितोऽस्ति स तत एवावगंतव्य इत्यलमतिप्रसंगेन ॥ ५९ ॥
अथ खाजूंरदोषं सुबोधमिंद्रवज्रयाहव्याघातगंडव्यतिपातपूर्वशूलांत्यवत्रे परिघातिगंडे । एकार्गलाख्यो ह्यभिजित्समेतो दोषः शशी चेद्विषमर्थगोऽर्कात्६०
व्याघातेति ॥ अंत्यो वैतिः, अन्ये प्रसिद्धाः। यस्मिन्दिने व्याघातादिके विरुद्ध दुष्टयोगे सति अर्कादर्कनक्षत्राच्छशी चंद्रोऽभिजित्समेतो विषमे विषमसंख्याके ऋक्षे नक्षत्रे गतश्चेत् स्यात्तदा खाजूंरचक्रोत्पन्न एकार्गलाख्यो दोषः स्यात् । यदा समे स्यात्तदा न दोष इत्यर्थः । यदाह त्रिविक्रमः-'विरुद्धनामयोगेषु साभिजिद्विषमसंगः । अर्कादिंदुस्तदा योगो निंद्य एकार्गलाभिधः ॥' इति । केशवार्केणापि-'न्यस्ते सहाभिजिति' इत्यादिनाऽभिजिद्गुणनोक्ता । वसिष्ठेन त्वत्र चक्रमभिहितम्-'अंत्यातिगंडपरिघव्यतिपातपूर्वव्याघातगंड: वरशूलमहाशनीषु । चित्रानुराधपितृपन्नगदसभेषु सादित्यमूलशशिसूरिषु मूर्धभेषु ॥ रेखामेकामूर्ध्वगां षद च सप्त तिर्यक् कृत्वाप्यत्र खार्जूरचक्रे । तिर्यग्रेखासंस्थयोश्चंद्रभान्वोर्डक्संपातो दोष एकार्गलाख्यः ॥' चक्रोद्धारो यथा-'खरकरतुहिनांश्वोदृष्टिसंपातजन्मा अनलमयशरीरस्तूद्गिरत्नग्निसंघान् । भुवि पतति जनानां मंगलध्वंसनाय गुणगणशतसंधैरप्यवार्योऽग्निकोपः ॥' इति । अत्र वसिष्ठवाक्येऽभिजित्साहित्यमस्ति न वेति संदेहः। नारदस्त्वभिजिद्वर्जितं वक्रमाह-'व्याघातशूलपरिघपातपूर्वेषु सत्स्वपि। गंडातिगंडकुलिकवैश्त्या सहितेषु च ॥ अदितीन्दुमघाह्याद्यमूलमैत्रेज्यभानि च । ज्ञेयानि सह चित्राभिमूर्ध्नि भानि यथाक्रमम् ॥ लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश । तत्र खाजूंरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् ॥ भान्येकरेखागतयोः सूर्याचंद्रमसोर्मिथः । एकार्गलो दृष्टिपाताच्चाभिजिद्वर्जितानि वै ॥ लांगले कमठे चक्रे फणिचक्रे त्रिनाडिके । अभिजिद्गणना नास्ति चक्रे खाजूंरिके तथा ॥' इति । कश्यपेनापि—'एकार्गलो दृष्टिपातश्चाभिजिदहितानि वै' इति । तत्र त्रिविक्रमकेशवार्कवाक्ययोः समूलत्वस्य शिष्टसंमतत्वान्नारदादिवाक्यैः सह विकल्पः। ततोऽनयोः पक्षयोर्यथादेशाचारं व्यवस्थेति युक्तं प्रतीमः ॥ ६॥
१ पूर्वः आयो योगः विष्कंभाख्यः ।