________________
अर्धयामदोषः] विवाहप्रकरणम् ।
२०३ अथोपग्रहदोषमुपेंद्रवज्रयाहशराष्टदिक्शक्रनगातिकृत्यस्तिथिईतिश्च प्रकृतेश्च पंच । उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशे कुरुबालिकानाम् ६१
शरेति ॥ सूर्यभतः सूर्याक्रांतनक्षत्रादलताराः चंद्रनक्षत्राणि पंचाष्टदशचतुर्दशसप्तैकोनविंशतिपंचदशाष्टादशैकविंशतिद्वाविंशतित्रयोविंशतिचतुर्विशतिपंचविंशतिसंख्याकाश्चेत्स्युस्तदोपग्रहनामका दोषाः स्युः । प्रकृतिः एकविंशतिः । यदाह नारदः-'भूकंपः सूर्यभात्सप्तमः विद्युच्च पंचमे । शूलोऽष्टमे च दशमेऽशनिरष्टादशे ततः॥केतुः पंचदशे दंडश्चोल्का एकोनविंशतिः। निर्धातपातसंज्ञश्च ज्ञेयः स नवपंचमे ॥ मोघनिर्धातकंपाश्च कुलिशं परिवेषकम् । विज्ञेयाश्चैकविंशाख्यादारभ्य च यथाक्रमम् ॥ चंद्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् ॥' इति । वराहः–'उपग्रहःषु विवाहिता स्त्री सूर्यक्षतो दुर्भगतामुपैति ।' अन्यत्रापि-'गृहप्रवेशे दारिद्र्यं विवाहे मरणं भवेत् । प्रस्थाने विपदः प्रोक्ता उपग्रहदिने यदि ॥' इति । एवं सामान्यतो निषेधमभिधाय देशभेदेन परिहारमाह-शुभा इति । स्पष्टार्थम् । 'बाहीके गुरुदेशे च वर्जयेदमुपग्रहम्' इति कश्यपोक्तेः ॥ ६१ ॥
अथोपग्रहापवादप्रसंगात्पातोपग्रहलत्तास्वपवादं वारदोषभेदमर्धयाम चानुष्टुप्छंदसाह
पातोपग्रहलत्तासु नेष्टोऽघ्रिः खेटपत्समः ।
वारस्त्रिनोऽष्टभिस्तष्टः सैकः स्यादर्धयामकः ॥ ६२॥ पात इति ॥ पातश्चंडीशचंडायुधाख्यो दोषः। उपग्रहःप्रागुक्त एव । लत्ता 'ज्ञराहुपूर्णेन्दु' (६।५७) इत्यादिनोक्ता । तत्र खेटपत्समः ग्रहचरणतुल्यो नक्षत्रचरणोऽनिष्टः। अस्यार्थः-पाते उपग्रहे च रविर्यस्मिन्नंघ्रौ स्यात्तत्संख्यचरणस्तस्य नक्षत्रस्य वयो नान्यः । लत्तायां तु ये लत्ताकारिणो ग्रहा यच्चरणे स्युस्तत्संख्य एव चरणो वज्यों नान्यः । उक्तं च मुहूर्तदीपिकायाम्-'उपग्रहेषु लत्तायां तथा चंडायुधाह्वये ॥ ग्रहोऽस्ति यत्प्रमाणांशे विद्धांशस्तत्प्रमाणतः ॥' इति उपग्रहचंडायुधयोः सूर्यकृतोऽघ्रिाह्यस्तस्यैव संभवात् । अयं च परिहारस्तुल्यन्यायत्वात् खाजूंरकेऽपि द्रष्टव्यः। सूर्यो यस्मिन् पादे भवेत्तत्समसंख्यश्वरण एकरेखावस्थितचंदनक्षत्रस्य वर्ण्य इत्यर्थः । 'खाजूंरिकसमांघ्रिभम्' इति नारदोक्तेः । ज्योतिर्निबंधे गर्गः–'पूर्वाह्ने दंडदोषः स्यादपराह्ने तु मोधकः । उल्का स्यादर्धरात्रे तु कंपोऽहोरात्रदूषकः ॥ कंपोल्कादंडमोघानां स्वरमासदशर्तवः ७।१२।१०।६। आदितो घटिकास्तेषु वर्जनीयाः पराः शुभाः' इति । वार इति । इष्टो वारस्त्रिघ्नः सैकोऽष्टभिस्तष्टः शेषितो योऽकः सोऽर्ध
१ व्यपनेयाः इति पाठः।