________________
૨૮૨
मुहूर्तचिंतामणिः ।
[ कुलिकदोषः
यामाख्यो दोषः स्यात् । स्वार्थे कः । यदाह श्रीपतिः - 'मनीषिणो ऽर्धप्रहराद्वितीयादारभ्य सर्वेष्वपि मंगलेषु । भौमोशनः सूर्यबुधार्किचंद्र सुरेज्यवारेषु विवर्जयंति ॥' इति । अत्र कथं समानार्थतेति चेत् प्रथमार्धप्रहरः कस्यापि वज्र्यो नास्ति । तत्र सूर्यस्य वारे तावद्वितीयादर्धप्रहरादारभ्य तृतीयोऽर्धप्रहर ( अर्थाच्चतुर्थः) उक्तोऽतः त्रिगुणसैक इत्युपपन्नस्ततस्तृतीयश्चंद्रस्य वारे सूर्योदयात्सप्तम इति वारखिघ्नः सैक इत्यत्रापि सिद्धम् । ततस्तृतीयो भौमस्य वारे सूर्योदयाद्दशमः । रात्रौ चार्धयामानुक्तेरिति दिवसस्याष्टावर्धयामा इत्यष्टाभिः शेषित इत्युपपन्नम् । एवं बुधवारादिष्वपि द्रष्टव्यम् । अत्र पुनरुक्तिपरिहारमधुनैव वक्ष्यामः । कश्यपः - ' शैलाक्षश्रुतयः सूर्ये चंद्रे षदपर्वताः । भौमे बाणाग्निनेत्राणि सौम्ये वेदाक्षिवायवः ॥ गुरुवारेऽग्निचंद्रेभाः शुक्रे नेत्रादिवह्नयः । शनौ चंद्रेभतर्काः स्युः कुलिको यमघंटकः ॥ अर्धप्रहरसंज्ञास्तान् मंगलेषु विवर्जयेत् । वारदोषेण दुष्टं तल्लग्नं सर्वगुणान्वितम् । त्यजेद्यथा पुरोडाशं वायसोपहतं तथा ॥' इति । फलमाह वसिष्ठः - 'निधनं प्रहराधे तु निःस्वत्वं यमघंटके । कुलिके सर्वनाशः स्याद्रात्रावेते न दोषदाः ॥' इति ॥ ६२ ॥
अथ वारदोषभेदं कुलिकमनुष्टुभाह
शक्रार्कदिग्वसुरसाब्ध्यश्विनः कुलिका रवेः
रात्रौ निरेकास्तिथ्यंशाः शनौ चांत्योऽपि निंदिताः ॥ ६३ ॥ शक्रेति ॥ वेरिति ल्यब्लोपे पंचमी । रविमारभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथयंशा मुहूर्ताः कुलिकाः स्युः । यथा-दिवसे रवौ १४ सोमे १२ भौमे १० बुधे ८ गुरौ ६ शुक्रे ४ शनौ २ । रात्रावेते निरेकाः कार्याः । यथा-ख़ौ १३ सोमे ११ भौमे ९ बुधे ७ गुरौ ५ शुक्रे ३ रानौ १ शनौ स्वंत्योऽपि रात्रेः पंचदशोऽपि मुहूर्तः कुलिकः । एते कुलिका निंदिताः । यदाह श्रीपतिः'मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्तैः कुलिका भवंति । दिवा निरेकैरथ यामिनीषु ते गर्हिताः कर्मसु शोभनेषु ॥' रत्नकोशे - 'दिवा द्वितीयः कुलिकोsर्कजाते रात्रौ प्रदिष्टः प्रथमः स एव । रात्रेस्ततः पंचदशे विभागे एवं विवर्ज्यं कुलिकत्रयं च ॥' इति । ननु सामान्यतः 'सूर्ये षट्स्वरनाग' इत्यादिना दुर्मुहूर्तार्धयामकुलिका उक्ता इदानीं किं पुनरुच्यते इति । सत्यम् । आवश्यकत्वद्योतनार्थम् । तथा हि-विवाहे एषां दोषाणां सर्वथैव त्यागः 'विवाहे विधवा नारी' इत्यभिहितफलस्य दुःसहत्वात् । भर्तृमरणे हि यावज्जीवं पढ्याः सर्वप्रकारकदुःखानुभवत्वात् । यज्ञोपवीतादिशुभकर्मणि तु संस्कार्यमरणे संबंधिनां तात्कालिकं दुःखम् । पित्रोस्तु पुत्रांतराभावे कियत्कालमेव, तत्सत्त्वे पुनः कियद्दिनमात्रम् । सर्वथा विधवासदृशं दुःखं कस्यापि नास्ति । किंच वारप्रकरणे सामान्यतो मुनिभिर्दिनरात्रिसाधारण्येन कुलिकाद्युक्त्वा 'रात्रावेते न दोषदा' इत्युक्तम् । तस्यापि बाधो यथा स्यात् । अत एव कश्यपो