________________
जामित्रदोषः] विवाहप्रकरणम् ६ । वारप्रकरणे कुलिककंटकार्धयामानभिधाय विवाहप्रकरणे पुनरप्यभिदधाति स्म । ग्रंथका मुहूर्तत्वं कुलिकादीनामभिसंधाय दुर्मुहूर्तानामप्यभिधानं कृतम् । किंच कुलिका अनावश्यं वक्तव्याः, रात्रौ कुलिकज्ञानं यथा स्यात्तत्र साधारण्येन दिनरात्रिविभागेन शीघ्रोपस्थित्यर्थं पद्येनाभिधानम्-'सूर्ये षद स्वरनाग' इत्यादिना मुहूर्तत्यागे के कुलिककंटकार्धप्रहराः इति पुनः संदेहे 'कुलिकः कालवेला च' इति पद्यस्मरणमपेक्षितमिति गौरवापत्तेश्च । अत एव शिष्टा अप्यन्येषां दोषाणां यथासंभवत्यागपूर्वकं कुलिकार्धयामदुर्मुहर्तानामवश्यं त्यागं विदधते, अतो ग्रंथकापि पुनरुक्ता इति युक्तं प्रतीम इत्यलमतिप्रसंगेन ॥ ६३॥
अथ पंचांगदोषविशेषं दग्धतिथ्याख्यमिंद्रवज्रयाहचापांत्यगे गोघटगे पतंगे कर्काजगे स्वीमिथुनस्थिते च। सिंहालिगे नक्रधटे समाः स्युस्तिथ्यो द्वितीयाप्रमुखाश्च दग्धाः ६४
चापेति ॥ तत्तद्राशियुग्मस्थिते पतंगे सूर्ये द्वितीयाप्रमुखाः शुक्लकृष्णपक्षसाधारणाः समास्तिथ्यो दग्धाः स्युरिति वाक्यार्थः । यथा-चापांत्यगे धनुर्मीनगते सूर्य द्वितीया दग्धा, गोघटगे सूर्ये चतुर्थी, कर्काजगे कर्कमेषगे सूर्य षष्ठी, स्त्रीमिथुनस्थिते कन्यामिथुनस्थिते सूर्येऽष्टमी, सिंहालिगे सूर्ये दशमी, नकधटे मकरतुलागते सूर्य द्वादशी दग्धेत्यर्थः । यदाह वसिष्ठः-'एकांतरा दिनपतौ दिवसा द्वितीयापूर्वोत्यचापधरयोर्घटभौक्षयोश्च । कर्काजयोर्मिथुनकन्यकयोश्च कीटहर्योस्तुलामकरयोः खलु मासदग्धाः ॥ मासदग्धासु तिथिषु कृतं यन्मंगलादिकम् । तत्सर्व नाशमायाति ग्रीष्मे कुसरितो यथा ॥' इति । पूर्वांत्येत्यत्र पूर्वा अंत्येत्याद्यपेक्षितं तत्र 'नमुने' इत्यत्र नेति योगविभागादसिद्धत्वाभावे संधिः । औक्षयोरिति । उक्षा वृषस्तस्यायं राशिरोक्षः 'औक्षमनपत्ये' इत्यकारांतो निपातितः । अस्यापवादमाह कश्यपः-'मासदग्धाश्च तिथयो मध्यदेशे विवर्जिताः' इति ॥ ६४ ॥
अथ जामित्रदोषं भ्रमरविलसितेनाहलग्नाचंद्रान्मदनभवनगे खेटे न स्यादिह परिणयनम् । किंवा बाणाशुगमितलवगे जामित्रं स्वादशुभकरमिदम् ॥ ६५ ॥
लग्नादिति ॥ विवाहलग्नाचंद्राद्वा सप्तमं भवनं गृहं तत्र गते खेटे परिणयनं न स्यात् । उक्तं च-'जामित्रं द्विविधं प्रोक्तं गर्गगालवगौतमैः । तस्माल्लग्नाच्च चंद्राच्च जामित्रं परिवर्जयेत् ॥' इति । तत्स्वरूपमाह महेश्वरः'लग्नाच्छीतकरानहा धुगनता नेष्टा विवाहे स्मृताः' इति । वसिष्ठो लग्नप्रकरणे-'सर्वे जामित्रसंस्था विदधति मरणम्' इत्याह स्मोलल्ल:-'पापात्सप्तमगः शशी यदि भवेत्पापेन युक्तोऽथवा यत्नेनापि विवर्जयेन्मुनिमते दोषोऽपि संकथ्यते । उद्वाहे विधवा व्रते तु मरणं शूलं च पुंस्कर्मणा यात्रायां