________________
२८६
मुहूर्तचिंतामणिः। [महादोषाणामपवादाः विपदो गृहेषु दहनः क्षौरेऽपि रोगो महान् ॥' भुजबल:-'चंद्रात्सप्तमराशिगे दिनकरे त्यक्ता धनैः कन्यका भौमे च प्रमदा प्रयाति विलयं सौरेण वंध्या सरुक् । जीवः शुक्रशशांकजौ शुभकराः केचिद्वदंति क्रमागर्तृप्रेप्सितदीक्षिताऽस्तभवने नित्यं प्रवासान्विता ॥' इति । अस्यापवादमाह-किंवेति । किंवाशब्दो विकल्पे । पूर्व ग्रहाधिष्ठितराशेः सप्तमराशिस्थितः त्रिंशद्भागात्मकं लग्नं चंद्रश्च निषिद्ध इत्युक्तम् , इदानीं तदधिष्ठितराशिनवांशमारभ्य बाणाशुगाःपंचपंचाशत् तन्मितनवांशगे लग्ने चंद्रे च सति जामित्रं सूक्ष्मं स्यात् । यथा मेषराशौ पंचमनवांशे भौमोऽस्ति तस्मात्तुलायां पंचमनवांशस्थं लग्नं चंद्रोऽपि निषिद्धोऽन्येष्टौ नवांशाः शुभाः । एवंविधं सूक्ष्मं जामित्रमिदमशुभकरं स्यात् । यदाह महेश्वरः-'कैश्चित्त्वाद्यनवांशकादिषु ५५ शरैस्तुल्ये नवांशे स्थिता ॥' इति । केशवार्कस्तु चंद्रनवांशादेवाह-हिमरश्मिनवांशकात्खलो यदि खेटः शरसायकांशके । अयमन्यगुणैर्न हन्यते निबिडैरप्युपसर्गडंबरः ॥' इति । अपवादातरमाह राजमार्तड:-'तुंगत्रिकोणभवने भवने निजे वा सौम्याधिमित्रगृहगोऽपि तदीक्षितो वा । जामित्रवेधजनितानपहृत्य दोषान्दोषाकरः सुखमनेकविधं विधत्ते ॥' इति । व्यवहारसमुच्चयेऽपि—'स्वोच्चोऽथवा स्वभवने स्फुरदंशुजालः सौम्यालये हितगृहे शुभवर्गगो वा । जामित्रकादिपरिसंधितदोषराशि हृत्वा ददाति बहुशःसुखमेव चंद्रः॥' इति । कालखंडे वात्स्यायन:-'गुरुश्चंद्रश्च जामित्रे तिष्ठेद्यदि बलान्वितः । धनसौभाग्यपुत्रांश्च लभते नात्र संशयः। मणिमुक्ताप्रवालैश्च सुवर्णाभरणैः शुभैः । शोभिता तु सदा तिष्ठेद्गुरुणापि निरीक्षिते ॥ सा तु भर्तुः प्रिया नित्यं बुधे चंद्रस्य सप्तमे ॥' इति ॥ ६५॥ ___ अथैकार्गलादिमहादोषाणामुक्तानां लग्नांतराभावे सत्यपवादभूतमिंद्रवज्रा. लक्षणाक्रांतं साक्षाद्वसिष्ठवचनमेवाह
एकागलोपग्रहपातलत्ताजामित्रकर्तर्युदयास्तदोषाः । नश्यंति चंद्रार्कबलोपपने लग्ने यथार्काभ्युदये तु दोषा॥६६॥ एकार्गलेति ॥ एकार्गलः खाजूरचक्रे । उपग्रहः 'शराष्ट' (६।६१) इत्यादिनोक्तः । पातश्चंडीशचंडायुधं, लत्ता 'ज्ञराहु' (६।५७) इत्यादिनोक्ता । जामित्रमधुनोक्तं । कर्तरी 'लग्नात्यापात्' (६।४२) इत्याद्युक्ता, उदयास्तदोषा वक्ष्यते। एवंविधा दोषा नश्यति। कदा ? विवाहलग्ने चंद्रार्कयोर्बलं स्वोच्चमित्रादिराशिस्थितत्वरूपं विहितस्थानस्थितत्वं च तेनोपपन्ने सहिते सति । अत्र दृष्टांतमाहयथेति । अर्कस्य सूर्यस्याभ्युदये दोषा रात्रिर्यथा नश्यतीत्यर्थः । गाढांधकारयुक्तापि रात्रिरेकाकिना सूर्यस्योदयेन स्वयमेव नश्यति । अत एव दोषापदं प्रयुक्तम् । निशादिप्रयोगे तु साधारण्येन शुक्लपक्षीयाया अपि रात्रेः संभवाचंद्रेणैव कियत्तमसोनिरस्तत्वादवशिष्टांधकारनाशे सूर्यस्यापुरुषार्थत्वापत्तेरिति