________________
दशयोगदोषस्तत्फलं च] विवाहप्रकरणम् ६ ।
२८७ कैमुतिकन्यायमपि सूचयति दोषापदम् । वसिष्ठवाक्यस्य मन्वादिवाक्यवत्प्रामाण्यान संमत्यंतरापेक्षा ॥ ६६ ॥
अथ केषांचिद्दोषाणां देशभेदेन परिहारभूतमुपजातिलक्षणाक्रांतं वसिष्ठपद्यमेवाहउपग्रहक्षं कुरुबाह्रिकेषु कलिंगवंगेषु च पातितं भम् ।। सौराष्ट्रशाल्वेषु च लत्तितं भं त्यजेत्तु विद्धं किल सर्वदेशे ॥६७॥
उपग्रहह्ममिति ॥ कुरवो बालिकाश्च पश्चिमदेशास्तेषूपग्रहदोषाक्रांतभं त्यजेन्न तदतिरिक्तसर्वदेशेषु । अन्यत्र शुभमेवेत्यर्थः । कलिंगा वंगाश्च प्राग्देशौ। वहुवचनान्मगधांगादयोपि तेषु चंडीशचंडायुधापरपर्यायं पातं त्यजेत् । नतु क्रांतिसाम्यरूपं पातम् । तस्य महापात इति व्यवहारात् । सौराष्ट्र: 'सोरठ' इतिभाषायां शाल्वदेशः पश्चिमदेशविशेषः । बहुवचनं ग्रामबाहुल्यात्तेषु लत्तितं लत्ता संजातास्य तद् परित्यजेत् विद्धं क्रूरेण शुभेन वा पंचशलाकादिचक्रद्वारा भिन्नं भं भूतलवर्तिसर्वदेशेषु त्यजेत् । किल निश्चयेन । नत्वस्य देशभेदेन परिहारः । एतदपि वाक्यं संमत्यंतरं नार्हति । विवाहपटलेऽपि-लत्ता मालवके देशे पातः कोशलके तथा। एकागलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥' इति । वराहः-'युतिदोषो भवेद्गौडे जामित्रस्य च यामुने । वेधदोषस्तु विंध्याख्ये देशे नान्येषु केषु च ॥' इति । एषां वाक्यानां यथादेशाचार व्यवस्था ॥ ६७ ॥ ___ अथ दशयोगदोषमुपजातिकयाहशशांकसूर्यर्थयुतेर्भशेषे खभूयुगांगानि दशेशतिथ्यः । नागेंदवोंकेंदुमिता नखाश्चेद्भवंति चैते दशयोगसंज्ञाः ॥ ६८॥
शशांकेति ॥ चेद्यदि चंद्रसूर्यनक्षत्रयोयुतेर्योगाद्भः सप्तविंशत्या भक्ताद्यच्छेषस्तस्मिन् शून्यैकचतुःषदशैकादशपंचदशाष्टादशैकोनविंशतिविंशतिसंख्याके सति एते अंकाः दशयोगसंज्ञा भवन्ति । नान्ये इत्यर्थः । शिष्टानां दशानामंकानामभिहितत्वाद्दशयोग इत्यन्वर्थसंज्ञा । तदुक्तं दीपिकायाम्'तिथ्यंगवेदैकदिगूनविंशमेकादशाष्टादशविंशसंख्याः । इष्टोडुना सूर्ययुतोडुना वा योगादमी चेद्दशयोगदोषाः ॥' लल्लोऽपि-'यस्मिन्नृक्षे रविस्तिष्ठेद्यस्मिन्नृक्षे शशी तथा। द्वयोर्योगहृते धिष्ण्यैः शेषः स्यात्खादितो दश ॥ शून्यवेदतुरूपाणि दिग्रुद्रतिथयो तिः । ऊनविंशा नखाश्चेति दशयोगाः प्रकीर्तिताः ॥' इति ॥ ६८॥
अथ दशयोगानां फलं तदपवादं च शार्दूलविक्रीडितेनाहवाताभ्राग्निमहीपचोरमरणं रुग्वज्रवादाः क्षति_ोगांके दलिते समे मनुयुतेऽथौजे तु सैकेर्धिते । भं दास्रादथ संमितास्तु मनुभी रेखाः क्रमात्संलिखे
द्वेधोऽसिन्ग्रहचंद्रयोर्न शुभदः स्यादेकरेखास्थयोः ॥६९॥