________________
२८८
मुहूर्तचिंतामणिः। [सापवादो बाणदोषः वातेति॥ शून्ये शेषे वातात् दोषः स्यात् , एके शेषेऽभ्रान्मेषात् , चतुर्धवशिष्टेष्वग्नेः, षदसु महीपादाज्ञः, दशसु चोरात्, एकादशसु मरणं द्वयोरन्यतरस्य वा, पंचदशसु रुकु, अष्टादशसु वज्रं, एकोनविंशेषु वादः कलिः। झकटक इति यावत् ; विंशतिशेषे क्षतिव्यनाशः स्यात् । यदाह लल्ल:-'मरुन्मेघाग्निभूपालचौरमृत्युरुजोऽशनिः। कलिर्हानिर्दशोद्वाहे दोषास्त्याज्याः सदा बुधैः ॥ विवाहादौ प्रतिष्ठायां व्रते पुंसवने तथा । कर्णवेधे च चूडायां दशयोगं विवर्जयेत् ॥' इति । अथापवाद उच्यते-योगांक इति । खभूयुगांगादिरूपे योगांके समे युग्मसंख्याके सति दलिते अर्धाकृते ततो मनुभिश्चतुर्दशभिर्युते योऽकस्तद् दास्रादश्विनीतो भं नक्षत्रं स्यात् । यथा-समांशके दशयोगः १० अर्धितः ५ मनुयुतः १९ मूलनक्षत्रं जातम् । अथ योगांके ओजे अयुग्मसंख्याके सति सैक एकयुक्त ततोऽर्धिते अश्विनीतो भं स्यात् । यथाविषमांकः पंचदशयोगः १५ सैकः १६ अर्धितः ८ पुष्यनक्षत्रं जातम् ॥ अथेत्यनंतरं । मनुभिः संमिताश्चतुर्दशरेखास्तिर्यक्रमात्संलिखेत् । तद्यथा-अनेन प्रकारेण यन्नक्षत्रमागतं तत आरभ्य साभिजिन्नक्षत्रवृंदमस्मिंश्चके लेख्यं, तत्र ग्रहः स्वाक्रांतनक्षत्रे स्थाप्यः दिननक्षत्रे च चंद्रः । एवं सति यदि ग्रहचंद्रावेकरेखास्थौ स्यातां तयोस्तादृशयोः परस्परावलोकनरूपो वेधो न शुभदः । उक्तं च ज्योतिःसारसागरे-'योगांके विषमे सैके समे सवसुलोचने । दलीकृतेऽश्विनीपूर्व दशयोगमुदाहृतम् ॥ दशयोगे महाचक्ने प्रमादाद्यदि विध्यते । क्रूरैः सौम्यग्रहैर्वापि दंपत्योरेकनाशनम् ॥' इति । दशयोगापवादांतरमाह भरद्वाजः-'गुरौ लग्नाधिपे शुक्रे सवीर्ये लग्नकेन्द्रगे । दशदोषा विनश्यति यथाग्नौ तूलराशयः ॥' तूलं कार्पासः। व्यासोऽपि-'शुक्रेण गुरुणा वापि संयुतं दृष्टमेव च । दशयोगसमायुक्तमपि लग्नं शुभावहम् ॥' इति ॥ ६९ ॥
अथ बाणदोषं शालिन्याहलग्नेनाढ्या याततिथ्योंकतष्टाः शेषे नागद्यब्धितर्केदुसंख्ये । रोगो वह्नी राजचौरौ च मृत्यु णश्चायं दाक्षिणात्यप्रसिद्धः ७० . लग्नेनेति ॥ शुक्लपक्षप्रतिपदमारभ्य गततिभ्यो लग्नेनाढ्याः युक्ताः कृत्वांकैनवभिस्तष्टाः शेषे नागसंख्ये रोगाख्यो बाणः, एवं द्विसंख्ये शेषे वयाख्यः, चतुःसंख्ये शेषे राजाख्यः,तर्काः षट् तत्संख्ये शेषे चौराख्यः,एकसंख्ये शेषे मृत्युसंज्ञो बाणः । अयं च दाक्षिणात्येषु महाराष्ट्रदेशीयेषु प्रसिद्धः, तेन देशाचारव्यवस्थया बाणस्य त्यागः; नतु प्राच्योदीच्यपाश्चात्यानाम् । तदुक्तं सप्तर्षिमते विवाहपटले-'गततिथियुतलग्नं पंचधा स्थापनीयं तिथि १५ रवि १२ दश १० नागै ८ वेद ४ युक्तं क्रमेण । नव ९ हृतशर ५शेषे बाणसंज्ञाःक्रमेण रुगनलनृपचौराः पंचमो मृत्युसंज्ञः ॥' इति ॥ ७० ॥ अथ प्राच्यमतेन बाणं सापवादं मालिनीछंदसाहरसगुणशशिनागाब्ध्याट्यसंक्रांतियातां-...
शकमिति रथतष्टांकैयदा पंच शेषाः ।