________________
विवाहप्रकरणम् ६ ।
रुगनलनृपचौरा मृत्युसंज्ञश्च बाणो नवहृतशरशेषे शेषकैक्ये सशल्यः ॥ ७१ ॥
रसेति । अथशब्दः पादपूरणे । रसगुणशशिनागान्धिभिराढ्या चासौ संक्रांतियातांशकमितिश्चेति कर्मधारयसमासः । स्पष्टनिरयनांशसूर्यसंक्रांतिभुक्तांशानां मितिः संख्या पंचधा स्थाप्या, कलादिकमुपेक्ष्यं; सा क्रमेण षट्त्र्येकाष्टचतुर्भिराढ्या संयोज्यांकैर्नवभिस्तष्टा सती यदा पंचशेषा यस्मिन्स्थले पंचावशिष्यते तत्र क्रमेण रुगादिबाणो ज्ञेयः । यथा- - आदौ पंचशेषे रोगबाणः, द्वितीये पंचशेषेऽग्निबाणः, तृतीये पंचशेषे राजबाणः, चतुर्थे पंचशेषे चौरबाणः, पंचमे पंचशेषे मृत्युबाणः, तस्मात्तस्माद्भयं भवतीत्यर्थः । यदाह कश्यपः - 'संक्रांतियातांशकनंदशेषस्तर्काग्निरूपाष्टयुगैः समेताः । तष्टो प्रह रोगहुताशभूपस्तेना मृतिश्चेति च पंच बाणाः ॥' इति । पंचेति पृथक् पदम् । पंच चेत् शिष्यंते तदा बाणाः स्युरित्यर्थः । तत्र बाणो द्विविधः - एकः काष्ठशल्यः, अपरो लोहशल्यः; तत्राभिहितो बाणः काष्ठशल्य उच्यते - अस्य नाम प्राच्याख्यो 'थोथा' बाण इत्याहुः । तेन तादृशे बाणे लग्ने तथा पीडा न भवेतदर्थं तदपवादभूतो लोहशल्यसहितो बाण उच्यते - नवेति । यानि प्रागागतानि शेषाणि तेषामैक्ये नवहते पश्चाच्छरशेषे पंचशेषे सति सशल्यः लोहशल्यसहितो बाणः स्यात् । पंचव्यतिरिक्ते शेषे शल्यरहितो 'थोथा 'बाणः ॥ अयं च तुल्यन्यायत्वात्प्राक्पद्योक्तेऽपि बाणे सशल्यो बाणो ज्ञेयः । ज्योतिश्चिंतामणावन्यथा बाणोऽभिहितः - ' तिथिवारभलग्नको रसाम्यंब्वष्टवेदयुक् १६।३|१|८|४॥ नंदाप्तः पंचशेषे रुग्वह्निराचौरमृत्युकृत् ॥' इति ॥ ७१ ॥
अथ समयभेदेन वारभेदेन वा कार्यभेदेन वा त्रिविधं बाणपरिहारं शार्दूलविक्रीडितेनाह—
रात्रौ चौररुज दिवाऽग्निंनृपती त्याज्यौ सदा संध्ययोमृत्युश्वाथ शनौ नृपो विदि मृतिभमेऽग्निचौरौ खौ । रोगोऽथ व्रतगेहगोपनृपसेवायानपाणिग्रहे.
बाणपरिहारः ]
२८९
वर्ज्याश्च क्रमतो बुधैरुगनलक्ष्मापालचौरा मृतिः ॥७२॥ रात्राविति ॥ तत्र तावत्कालभेदेन परिहारः । रात्रौ चौररुजौ बाणौ त्याज्यौ । दिवा दिवसेऽग्निनृपती वह्निराजबाणी त्याज्यौ । संध्ययोः प्रातः सायंसंध्ययोः सदा मृत्युबाणस्त्याज्यः । अर्थवशाद्विभक्तिविपरिणामः । तदुक्तं ज्योतिःप्रकाशे - 'रोगं चौरं त्यजेद्रात्रौ दिवा राजाग्निपंचकम् । उभयोः संध्ययोर्मृत्युमन्यकाले न निंदितम् ॥' इति । अथ वारभेदेन परिहार:अथेति । अथ शनौ शनिवारे नृपबाणः, विदि बुधवारे मृतिबाणः, भौमेऽग्निचौर
१ क्वचित् 'दिवा नरपतिर्वह्निः सदा' इति पाठः । प्रमिताक्षरायामपि ' दिवा नरप - तिर्वह्निः सदा' इति पाठः । तट्टीका चेत्थम् - दिवा नरपतिः राजबागस्त्याज्यः, वह्निवाणः सदा दिवारात्रौ इति । तत्संमतिवाक्येऽपि पाठान्तरम् ' दिवाराजन्यपंचकम् ॥ संध्ययो - मृत्युदं त्याज्यं सर्वदा वह्निपंचकम् ॥' इति ।
२५ मु० चि०