________________
२९०
मुहूर्तचिंतामणिः। [उदयास्तशुद्धिः बाणौ रवौ रोगबाणः त्याज्यस्त्याज्याविति यथायोग्य संबंधः । उक्तं च दैवज्ञमनोहरे-रवौ रोग कुजे वह्नि शनौ च नृपपंचकम् । वज्यं पुनः कुजे चौरं बुधवारे च मृत्युदम् ॥' इति । अथ कार्यभेदेन परिहार उच्यते-अथेति । क्रमतः एतेषु शुभकर्मसु एते बाणा वाः । यथा-व्रते यज्ञोपवीते रुक् गेहं गृहं तस्य गोप आच्छादनं तत्राऽनलोऽग्निः नृपसेवायां मापालो राजा याने यात्रायां चौरः पाणिग्रहे मृतिर्बाणो वयं इत्यर्थः । तदुक्तं ज्योतिःप्रकाशे-'नृपाख्यं राजसेवायां गृहगोपेऽमिपंचकम् । याने चौरं व्रते रोग त्यजेन्मृत्यु करग्रहे ॥' इति । केचिदेवं पाठमाहुः-'व्रते विवर्जयेद्रोगं गृहगोपेऽग्निपंचकम् । यात्रायां राजचौराख्यौ विवाहे मृतिपंचकम् ॥' इति ॥७२॥ __ अथोदयास्तशुद्धि विवक्षुस्तदुपयोगिनीं ग्रहदृष्टिमुपजातिकयाहत्र्याशं त्रिकोणं चतुरस्रमस्तं पश्यति खेटाश्चरणाभिवृद्ध्या । मंदो गुरुभूमिसुतः परे च क्रमेण संपूर्णदृशो भवंति ॥ ७३ ॥
त्र्याशमिति ॥ खेटा ग्रहा यस्मिन्स्थाने तिष्ठति तस्मात्कथ्यमानानि स्थानानि चरणाभिवृद्ध्या पादवृद्ध्या पश्यति । तद्यथा-व्याशं तृतीयं दशमं चैकचरणदृष्ट्या पश्यति । त्रिकोणं नवपंचमं द्विचरणदृष्ट्या पश्यति । चतुरस्रं चतुर्थ अष्टमं त्रिचरणदृष्ट्या पश्यति । अस्तं सप्तमस्थानं चतुश्चरणदृष्टया पश्यति । अनेन तत्तगृहोद्भवशुभफलं चरणाभिवृद्ध्यैव भवतीत्यसूचि । तदुक्तं वराहेण-'दशमतृतीये नवमपंचमे चतुर्थाष्टमे कलत्रं च । पश्यति पादवृद्ध्या फलानि चैवं प्रयच्छति ॥' इति । मंद इति । मंदः शनैश्चरः स्वस्थानाव्याशं संपूर्णदृक् चतुश्चरणदृष्टिः । एवं गुरुस्त्रिकोणं भूमिसुतः चतुरस्रं परे चंद्रबुधसूर्यशुक्राः अस्ते संपूर्णदृश इत्यर्थः । यदाह गार्गिः-'दुश्चिक्यदशमान्सौरिस्त्रिकोणस्थान् बृहस्पतिः। चतुर्थाष्टमगान्भौमः शेषाः सप्तमसंस्थितान् । भवंति वीक्षणे नित्यमेवाधिकफला ग्रहाः ॥' इति । वराहोऽपि-'पूर्ण पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः । चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलत्रं च ॥' इति ॥ ७३ ॥ __अथावसरप्राप्तामुदयास्तशुद्धिं शिखरिणीभुजंगप्रयातमालिनीछंदोभिस्त्रिभिराह
यदा लग्नांशेशो लवमथ तनुं पश्यति युतो __ भवेद्वायं वोढुः शुभफलमनल्पं रचयति । लवद्यूनस्वामी लवमदनभं लग्नमदनं
प्रपश्येद्वा वध्वाः शुभमितरथा ज्ञेयमशुभम् ॥ ७४॥ यदेति ॥ प्रथमपद्यस्यायमर्थः-यदा लग्नेऽशो लग्नांशस्तस्येशः स्वामी लवं नवांशं पश्यति; वा अथवा नवांशेन सह युतो वा भवेत्तदा वोढुवरस्यानल्पं बहु शुभफलं रचयति । यथा-मेषलग्ने मिथुनांशस्तदीशो बुधः तुलायां मिथुनं