________________
नवांशेशादिदृष्टिफलं] विवाहप्रकरणम् ६ । पश्यति तत्र तिष्ठति वा अयमुदयशुद्धेः प्रथमः कल्पः । 'तनुफलं हि लवानवलंबते' इति केशवार्कोक्तन्यायात् । तदलाभे तु लग्नांशेशस्तनुं लग्नं पश्यति लग्नेन सह युतो वा भवेत्तत्र तिष्ठति वा तदापि वोढुः शुभफलमनल्पं स्यात् । यथा-मेषलग्न एव मिथुननवांशस्वामी बुधो मकरे वनवांशं न पश्यति किंतु लग्नं पश्यति अथवा मेष एव तिष्ठति; अयं उदयशुद्धः द्वितीयः प्रकारः। नवेति।लवनस्वामी लवानवांशात् द्यूनं सप्तमनवांशस्तत्स्वामी लवमदनभं लवान्मदनभं सप्तमनवांशं पश्यति तेन सह युतो वा भवेत्तदा वध्वा अनल्पं शुभं रचयति । यथा-मिथुननवांशात् सप्तमो धनुरंशस्तदधीशो गुरुर्मेषे धनुः पश्यति तत्र तिष्ठति वा अयमस्तशुद्धेः प्रथमः प्रकारः । तदलाभे तु लवधूनस्वामी लग्नमदनं सप्तमभवनं पश्यति युतः सप्तमभवनेन सह युतो वा भवेत्तदा वध्वाः शुभम् । यथा-गुरुः कर्के स्वनवांशं न पश्यति किंतु सप्तमभवनं तुलां पश्यति अथदा तुलायामेवास्ति; अयमस्तशुद्धेर्द्वितीयः प्रकारः । इतरथेति । इतरथा यदा लग्नांशेशो लवं तनुं वा न पश्यति तत्र युतो वा न स्यात्तदा कन्याया अशुभं मृत्युः स्यात् । यदा त्वस्तांशोऽस्तांशमस्तभवनं वा न पश्यति तत्र युतो वा न स्यात्तदा कन्याया अशुभं मृत्युरित्यर्थः । यदाह कश्यपः-'स्वस्वेशेनोदयास्तांशौ वीक्षितौ वाऽथ संयुतौ । लग्नं वाऽस्तगृह तत्तदंशेशेनेक्षितं युतम्' इति । वसिष्ठः--'इष्टोदयांशे निजपत्यदृष्टे वरस्य मृत्युस्तदसंयुते च। अस्तांशकेऽप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्या ॥' इति । तुल्यन्यायत्वाल्लग्नेऽप्यस्तलग्नेऽपि उदयनवांशास्तांशस्वामिनोदृष्ट्यभावेऽप्येतदेव फलं ध्येयम् ॥ ७४ ॥ लवेशो लवं लग्नपो लग्नगेहं
प्रपश्यन्मिथो वा शुभं स्याद्वरस्य । लवयूनपोंऽशानं घूनपोऽस्तं
मिथोऽवेक्षते स्वाच्छुभं कन्यकायाः ॥ ७५ ॥ लवेश इति ॥ द्वितीयपद्यस्यायमर्थः-नवांशस्वामी नवांशं प्रपश्येल्लग्नस्वामी लग्नं प्रपश्येत्तदा वरस्य शुभं स्यात् । अथवा मिथः परस्परं लवस्वामी लग्नं लग्नेशो लवं च पश्येत्तदापि वरस्य शुभं स्यात् । एवं लवद्यूनपो नवांशात्सप्तमनवांशस्वामी अंशधुनमंशसप्तमराशिमीक्षते, यूनपो लग्नसप्तमस्वामी अस्तं लग्नात्सप्तमभवनमीक्षते तदा कन्यकायाः शुभं स्यात् । वा अथवा मिथः अंशसप्तमाधीशो लग्नसप्तमं वीक्षते लग्नात्सप्तमाधीशश्चांशसप्तममीक्षते तदापि कन्यायाः शुभं स्यात् । अत्रोदाहरणं स्पष्टत्वानोक्तमस्माभिः । अत्रान्यथात्वे दंपत्योरशुभमित्यर्थः । यदाह नारदः-'लग्नलग्नांशको स्वस्वपतिना वीक्षितौ युतौ । न चेद्वान्योन्यपतिना शुभमित्रेण वा तथा ॥ वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशको। एवं तौ वीक्षितयुतौ मृत्युर्वध्वाः करग्रहे॥' वसिष्ठोऽपि