________________
२९२
मुहूर्तचिंतामणिः ।
[ सूर्य संक्रमदोषः
'उदयांशः स्वनाथेन मित्रसौम्येन वा युतः । प्रेक्षितो वा तथास्तांशो दंपत्योः पुत्रपौत्रदः ॥' इति परस्परवीक्षणेऽप्येतदेव फलं ध्येयम् । नारदवाक्य
स्वरसात् ॥ ७५ ॥
अथ पूर्वोक्तप्रकारेणोदयास्तशुद्धेरभावेऽपि तृतीयप्रकार उच्यतेलवपतिशुभमित्रं वीक्षतेंऽशं तनुं वा
परिणयनकरस्य स्याच्छुभं शास्त्रदृष्टम् ।
मदनलवपमित्रं सौम्यमंशधुनं वा
तनुमदनगृहं चेद्वीक्षते शर्म वध्वाः ॥ ७६ ॥
लवपतीति ॥ शुभमित्रं शुभं च तन्मित्रं चेति कर्मधारयः । लवपतेर्लग्ननवांशेशस्य शुभग्रहः सोमबुधगुरुशुक्राणामन्यतमश्चेन्मित्रं स्यात्स चेदंशं स्वनवांशं तनुं लग्नं वा वीक्षते तदा परिणयनकरस्य वरस्य शास्त्रदृष्टं वसिष्टोक्तं पुत्रपौत्रादिप्राप्तिरूपं शुभं फलं स्यात् । एवं मदनलवस्यास्तांशेशस्य मित्रं सौम्यं चेत्स्यात्तच्चांशधुनमंशा लग्ननवांशाद् द्युनं सप्तमनवांश चेद्वीक्षते वा अथवा तनुमदनगृहं लग्नात्सप्तमभवनं चेद्वीक्षते तदा वध्वाः शास्त्रदृष्टं शर्म स्यात् । यद्युभयत्रापि नवांशस्वामिनो मित्रं पापग्रहश्चेत्तस्य दृष्टिरशुभैवेति फलितोऽर्थः । यदाह वराहः- 'शुद्धस्त्विह स्यान्न यदोदयांशो लग्नेन चास्तांशमुपैति शुद्धिम् । तदा सुहृत्सौम्य निरीक्षितो यः शुभाय स स्यात्प्रवति संतः ॥' इति । नन्वन्न वाक्ये 'सुहृत्सौम्य निरीक्षित' इति पदे सुहृच्चासौ सौम्यश्चेति कर्मधारयांगीकारे भवदुक्तं व्याख्यानं सत् । यदा तु सुहृच्च सौम्यश्चेति द्वंद्वः तदा सुहृत्पापग्रहोऽपि स्यादिति चेन्न । प्रागुक्तवसिष्ठवाक्ये 'मित्रसौम्येन वा युतः' इति तृतीयैकवचनांतस्यापार्थक्योपादानात् । मित्रं चासौ सौम्यश्च मित्रसौम्यस्तेन मित्र शब्दस्य विशेषणत्वात्पूर्वनिपातः । द्वंद्वांगीकारे तु मित्रसौम्याभ्यामिति भवितव्यं, तथा सति छंदोभंगोऽपि स्यात् । समाहारद्वंद्वो भविष्यतीति चेन्नात्र किंचित्प्रमाणमस्ति । अतः कश्यपेनाप्येवमेवोक्तम्– 'राश्यंशौ मित्रसौम्येन वीक्षितौ वाथ संयुतौ । उदयास्तांशयोः शुद्धिस्त्रिविधा मंगलप्रदा ॥' इति । अतो वराहवाक्येऽपि कर्मधारय एवेति युक्तं प्रतीमः । वसिष्ठः - 'लग्नास्तशुद्ध्या रहितः सदोषः करोति मृत्युं वरकन्ययोश्च । शत्रुं यथा लग्नगुणास्त्वशक्तास्तं बंधुवर्गा इव सर्पदष्टम् ॥' इति । केचित्तु विवाहादौ वज्रयोगं निषिद्धमाहुस्तलक्षणम् -' तिथिवारं च नक्षत्रं नवभिश्च समन्वितम् । सप्तभिस्तु हरेद्भागं शेषांके फलमादिशेत् ॥ त्रिशेषे तु जलं विद्यात्पंचशेषे प्रभंजनः । सप्तशेषे वज्रपातो ज्ञेयं वज्रस्य लक्षणम् ॥' इति टोडरानंदे ॥ ७६ ॥
अथ सूर्यसंक्रमणाख्यं दोषं मंजुभाषिण्याहविषुवायनेषु परपूर्वमध्यमान्दिवसां स्त्यजेदितरसंक्रमेषु हि । घटिकास्तु षोडश शुभक्रियाविधौ परतोऽपि पूर्वमपि संत्यजेदुधः ॥