________________
२९३
पंग्वंधादिलग्नदोषाः] विवाहप्रकरणम् ६ ।
विषुवेति ॥ विषुवं-तुलामेषसंक्रांती, अयनं कर्कमकरसंक्रांती; एवं चतसृषु विषुवायनाख्यासु संक्रातिषु परपूर्वमध्यमान् गतागामिवर्तमानान् दिवसान् बुधः शुभक्रियाविधौ विवाहयज्ञोपवीतादिशुभकार्येषु त्यजेत् । इतरे. प्वष्टसंक्रमेषु संक्रमकालात्परतोऽग्रेऽपि पूर्व प्रागपि षोडशघटिकाः मिलित्वा द्वात्रिंशद्धटिकास्त्यजेत् । यदाह वसिष्ठः-'विषुवतोरयनयोर्दिनत्रयं हरिपदे षडशीतिमुखेषु च । पूर्वतोऽपि परतोऽपि संक्रमान्नाडिकाश्च खलु षोडश त्यजेत् ॥ संक्रांतिदोषे त्वचिरात्कृतं यदुद्वाहपूर्वाखिलमंगलाद्यम् । लाक्षासमूहो ज्वलिताग्निमध्ये विलीयते तद्वदशेषमेतत् ॥' इति । उद्वाहादिग्रहणास्नानदानादावनिषेधः । तद्वाक्यानि संक्रांतिप्रकरणेऽस्माभिरुक्तानि । किं तद्दिनत्रयं त्याज्यं-किं संक्रातिकालात् प्राग्दिनत्रयम् , उत तदनन्तरम् , उत मध्यम वेति पक्षत्रयसंभवे निर्णयमाह गुरुः–'अयने विषुवे पूर्व परं मध्यं दिन त्यजेत् । अन्यसंक्रमणे पूर्वापराः षोडश नाडिकाः ॥' इति । अयं च निषेधः सायनसंक्रांतिष्वपि ध्येयः । यदाह वसिष्ठः-'यदायनप्रवेशः स्यात्तदा तद्राशिसंक्रमः । तस्मिन्नपि दिने त्याज्या नाड्यः षोडश षोडश ॥' इति । शौनकः-'अयनद्वये समूढा भर्तारं नाभिनंदते नारी । विषुववयेऽपि विधवा षडशीतिमुखेषु सा म्रियते ॥ विष्णुपदेषु विगीता कन्या विकलेंद्रिया व्यतीपाते ॥ वैधतिविष्ट्योभ्रंष्टा सुभगा शेषेषु करणेषु ॥' इति । विगीता: पुंश्चलीत्याद्यभिशापेन प्रसिद्धा ॥ ७७ ॥ अथ संक्रांतिप्रसंगात्सकलग्रहाणां संक्रांतिघटीरनुष्टुभाहदेवयंकर्तवोऽष्टाष्टौ नाड्योऽकाः खनृपाः क्रमात् । वाः संक्रमणेऽर्कादेः प्रायोऽर्कस्यातिनिंदिताः ॥ ७८॥ देवेति ॥ अर्कादेः सूर्यादेहसमूहस्यैता घटिकास्त्याज्याः । यथा-सूर्यस्य संक्रमणकालात् प्राक् पश्चात्कालौ मिलित्वा त्रयस्त्रिंशद्धटिकास्त्याज्याः । एवं चंद्रस्य द्वे घटिके, भौमस्य नव, बुधस्य षद, गुरोरष्टाष्टौ, अष्टाशीतिः शुक्रस्यांकाः, नव शनेः खनृपाः षष्ट्यधिकशतं घटिका वाः । तत्रार्कस्य घटिकाः प्रायो बाहुल्येनातिनिंदिताः । अत्र संमतिवाक्यं वासनासहितं सविवरण संक्रांतिप्रकरणेऽभिहितमस्माभिस्तत एवावधार्यम् ॥ ७८ ॥ ___ अथ पंग्वंधकाणबधिराख्यान् लग्नदोषानुपजातिकयाहघस्रे तुलाली बधिरौ मृगाश्वौ रात्रौ च सिंहाजवृषा दिवांधाः। कन्यानृयुक्कर्कटका निशांधा दिने घटोऽत्यो निशि पंगुसंज्ञः ॥७९॥
घने इति ॥ घस्रे दिवसे तुलाली तुलावृश्चिकौ बधिरौ स्मृतौ । मृगाश्वौ मकरधनुषी रात्रौ बधिरौ नतु दिवसे । सिंहाजवृषा दिवांधा दिवसेंऽधा उक्ता नतु रात्रौ । कन्यानृयुक्कर्कटा निशांधा रात्र्यंधा नतु दिवांधाः । घटः कुंभो दिने पंगुसंज्ञो नतु रात्रौ । अंत्यो मीनो निशि पंगुसंज्ञो नतु दिने ।