________________
२९४
मुहूर्तचिंतामणिः ।
[ विहितनवांशाः
-
यदाह वसिष्ठः – 'मेषादे रंधकं षङ्कं चत्वारो बधिराः स्मृताः । द्वौ पंगू चेति विज्ञेयावित्येतद्वाशिलक्षणम् ॥ मेषो वृषो मृगेंद्रश्च दिवसेंऽधाः प्रकीर्तिताः । नृयुक्कर्कटकन्याश्च रात्रावंधाः प्रकीर्तिताः ॥ तुला च वृश्चिकश्चैव दिवसे बधिरौ तथा । धनुश्च मकरश्चैव बधिरौ निशि कीर्तितौ ॥ कुंभमीनौ च पंगू fat fear aatarक्रमम् ॥' इति । कुंभो दिवा पंगुर्मीनो रात्रौ पंगुः । अनेन यस्मिन्काले लग्नस्य योंऽधपंग्वादिदोष उक्तस्तस्मिन्नेव काले तल्लग्नं दोषावहं न कालांतरे इत्युक्तं भवति ॥ ७९ ॥
अथ परमते पंग्बंधादींलग्न दोषानाहबधिरा धन्वितुलालयोsपराह्ने मिथुनं कर्कटकोंऽगना निशांधाः । दिवसांधा हरिगोक्रियास्तु कुब्जा मृगकुंभांतिमभानि संध्ययोर्हि ॥
बधिरेति ॥ धन्वितुलालयो धनुस्तुला वृश्चिका अपराह्णे दिवसस्यांतिमे तृतीयविभागे बधिराः स्मृताः; मिथुनकर्कटकन्या निशांधाः स्मृताः; हरिगोक्रियाः सिंहवृषमेषास्तु दिवसांधाः स्मृताः; मृगकुंभांतिमभानि मकरकुंभमीनाः संध्ययोः प्रातःसायंसंध्ययोर्हि निश्चयेन कुजाः पंगवः स्मृताः । अत्र मूलवाक्यं नोपलभ्यते ॥ ८० ॥
अथैषां प्रयोजनं सापवादं प्रहर्षिण्याह
दारिद्र्यं बधिरतनौ दिवांधलग्ने वैधव्यं शिशुमरणं निशांधलने । पंग्वंगे निखिलधनानि नाशमीयुः सर्वत्राधिपगुरुदृष्टिभिर्न दोषः ॥
दारिद्र्यमिति ॥ स्पष्टार्थं पद्यम् । पंग्वंगे पंगुलग्ने । यदाह वसिष्ठः'अंधे वैधव्यमानोति दारिद्र्यं बधिरे तथा । अर्थनाशो भवेत्पंगाविति धोत्रा विनिश्चितम् ॥' इति । सर्वत्रेत्यस्य संमतिः । बादरायणः - 'मासशून्याह्वयातारा राशयो बधिरादयः । स्वामिजीवबुधैर्दृष्टा युक्ता वा नैव दोषदाः ' इति । एषां परिहारो देशभेदेनाप्यभिहितः कश्यपेन - 'काणपंग्बंधबधिरमासशून्याश्च राशयः । गौडमालवयोस्त्याज्यास्त्वन्यदेशे न गर्हिताः ॥' इति । नारदवाक्यं तु ग्रंथकृतैव प्रागुक्तम् ॥ ८१ ॥
अथोदयास्तशुद्धिः प्रागुक्ता तत्रावसरप्राप्तान्वितहिनवांशांश्चित्रपदाछंदसाहकार्मुकतौलिककन्यायुग्मलवे झषगे वा ।
यहि भवेदुपयामस्तर्हि सती खलु कन्या ॥ ८२ ॥ कार्मुकेति ॥ कार्मुकं धनुः, तौलिकं तुला, कन्या प्रसिद्धा, युग्मं मिथुनं; एषामंशे नवांशे झषगे वा मीननवांशे वा विकल्पेन । वाशब्दः स्वकीयमतसूचनार्थः । धनुरादिनवांशाः सर्वमुनिसंमता इत्यर्थः । तेष्वंशेषु यहि यदा उपयामो विवाहो भवेत्तर्हि कन्या विवाहोत्तरं सती पतिव्रता खलु निश्चयेन स्यात् । यदाह वसिष्ठः - 'लग्ने हि सर्वे शुभराशयश्च शुभेक्षिता वाथ युताः शुभाः स्युः । नवांशका स्तौलिनृयुग्युवत्यश्चापायभागः शुभदो न चान्ये ॥ द्विभर्तृका मेषनवांश स्याद्वृषांश के सा पशुशीलयुक्ता । धनान्विता पुत्रवती