________________
विहितनवांशे निषेधः ] विवाहप्रकरणम् ६ |
तृतीये कुलीरकांशे कुलटाप्यजस्रम् ॥ सिंहांश के सा पितृमंदिरस्था कन्यांशके वित्तयुता सुशीला । तुलांशके सर्वगुणास्पदा सा कीटांशके निःस्वतरा विशीला ॥ चापांशकाद्ये धनिनी द्वितीये भागेऽन्यसक्ता मलिना गदाढ्या । निःस्वा मृगांशे विगुणा घटांशे विभर्तृका योगरता विशीर्णा ॥ मीनांशके भर्तृयुतार्थहीना शुभग्रहैर्युक्तनिरीक्षिते वा । तस्मात्सदैवोक्तनवांशकेषु कुर्या - द्विवाहं गुणसंप्रवृद्ध्यै ॥ नवांशदोषः सकलं गुणौघं लग्नोत्थसौम्यग्रहसंभवं च । ध्रुवं निहंतीव वृकोऽजसंधं षड्वर्गजं सौम्यवियच्चराणाम् ॥' इति । पशुशीलयुक्ता पशुवव्यभिचारपरा गदो रोगः स्वं धनं । एते एव च नवांशाः सकलमुनिभिरुक्ताः - 'तुला मिथुनकन्यांशा धनुराद्यार्धसंयुताः । एते नवांशाः शुभदा यदि नांत्यांशकः खलु ॥' इति नारदोक्तेः । शौनकस्तु मीनांशकमपि शुभमाह - 'सुदती सौभाग्यवती प्रहसितवदना च मीनांशे' इति । तत्र निषेधविध्योस्तुल्यबलत्वात्षोडशिग्रहणाग्रहणवद्विकल्प इत्याहुः । तन्न । 'एकबाधेनोपपत्तावनेक बाधो न न्याय्यः' इति बहुमुनिवचनप्रामाण्यान्मीनाशत्याग एवोचितो नत्वेकतरमुनिवचनानुरोधात्पाक्षिको बाधः पाक्षिको विधिश्च । विकल्पस्याष्टदोषग्रस्तत्वात् । का तर्हि शौनकवाक्यगतिरिति चेत् । गुणवरोपलब्धौ लग्नांतरासंभवे च विचारितस्थले विहितनवांशानां दोषवत्व सद्भावाच्च गत्यंतराभावे मीनांशको निषिद्धोऽपि प्रशस्त इत्येवं युक्ता गतिः । यहीति । 'अनद्यतने हिलन्यतरस्याम्' इति किंयत्तद्भ्योऽनद्यतने काले हिलप्रत्ययः । उपयामः ' यमः समुपनिविषु च' इति भावे घञ् । 'विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम्' इत्यमरसिंहः ॥ ८२ ॥ अथ विहितनवांशे क्वचिन्निषेधं श्रीछंदसाह - अंत्यनवांशे न च परिणेया काचन वर्गोत्तममिह हित्वा । नो चलने चरलवयोगं तौलिमृगस्थे शशभृति कुर्यात् ॥ ८३ ॥ अंत्येति ॥ विहितनवांशेष्वपि यथा मेषलग्ने धनुर्नवांशोंऽतिम इत्येवंविधे विषये लग्नांतिमनवांशे काचन कन्या न परिणेया न विवाह्या, परंतु वर्गों - त्तममंतिममपि नवांशं हित्वा । तेत्र विवाह उचित एव । यथा मिथुनलग्ने मिथुनांशोऽन्तिमोऽपि वर्गोत्तमः । यदाह कश्यपः - 'अंत्यांशका अपि श्रेष्ठा यदि वर्गोत्तमाह्वयाः । अनुक्तांशास्तु न ग्राह्या यतस्ते कुनवांशकाः ॥' इति । वसिष्ठोऽपि - ' वर्गोत्तमं विनांत्यांशो विवाहे न शुभप्रदः । वर्गोत्तमश्चेदंत्यांशः पुत्रपौत्रादिवृद्धिदः ॥' इति । अन्यच्च । नो चरलग्ने इति । तौलिमृगस्थे तुला मकरस्थे शशभृति चंद्रे सति चरलने विहितचरलवयोगं नो कुर्यात् । यथा - मेषलग्ने तुलांशः । उक्तं च केशवार्केण - 'चरलवं चरवेश्मगमुत्सृजे - न्मृगतुलाधरगे मृगलक्ष्मणि । युवतिरत्र भवेत्कृतकौतुका मदनवत्यनवत्यजनोन्मुखी ॥' इति । न नवः अनवो जीर्णो भर्ता तस्य त्यजने त्यागे उन्मुखी परपुरुषरता स्यादित्यर्थः ॥ ८३ ॥
२ वर्गोत्तमे अंतिमेऽपि अंशे ।
२९५