________________
२९६
मुहूर्तचिंतामणिः। [लग्नभंगयोगः __ अथ सर्वथा लग्नभंगयोगमुपजात्याहव्यये शनिः खेऽवनिजस्तृतीये भृगुस्तनौ चंद्रखला न शस्ताः । लग्नेटकविग्लौश्व रिपो मृतौ ग्लौलनेट्शुभाराश्च मदे च सर्वे ८४
व्यये इति ॥ व्यये द्वादशस्थाने स्थितः शनिः न शस्तः, 'सोमकुलेऽपि हि जातां द्वादशगो मद्यपां कुरुते' इति शौनकोक्तेः। अत्र रविसुत इत्यनुवर्तते । खे दशमेऽवनिजो मंगलो न शस्तः, 'शाकिनी व्योनि वक्रः' इति केशवार्कोक्तेः। तृतीयो भृगुः शुक्रः न शस्तः, 'धन्या धनगे शुक्रे कृपणत्वं प्रामुयान्नारी । दुश्चिक्यगते कन्या त्र्यब्दागर्तुः कनीयसं भजते ॥' इति शौनकोक्तेः। तनौ लग्ने चंद्रः खलाः पापग्रहाश्च न शस्ताः, 'लग्नस्थेऽर्के कन्या विधवा संवत्सरेऽष्टमे भवति । लग्नस्थो हिमरश्मिर्मत्यु कुर्यात्रयोदशे मासे ॥ भौमः सद्यो विधवां लग्नस्थोऽब्दान्न सौम्यदृग्योगात् । कामयति नीचवर्णाल्लामस्थे रविसुते बहून्पुरुषान् ॥ शनिवद्विधुतुदस्य तु विज्ञेयं सदसदिति विज्ञैः' इति शौनकोक्तेः। लग्नेट् लग्नस्वामी कविः शुक्रः ग्लौश्चंद्रश्च रिपौ षष्ठस्थाने न शस्तः, रंध्रे कुजे सौम्यखगे च मृत्युः षष्ठाष्टगे लग्नपतौ च मृत्युः' इति ज्योतिनिबंधकृदुक्तेः। 'भृगुषट्कायो दोषो लग्नात्षष्ठगते सिते। उच्चगे शुभसंयुक्त तल्लग्नं सर्वदा त्यजेत् ॥' इति नारदोक्तेः। 'अब्दचतुष्कान्मृत्युदंपत्योः षष्ठगे चंद्रे' इति शौनकोक्तेः। ग्लौश्चंद्रः, लग्नेद शुभाश्चंद्रबुधगुरुशुक्राः, मारो भौमचैते मृतावष्टमस्थाने न शस्ताः, 'मासत्रयेण विधवां निधनस्थश्चंद्रमाः कुरुते। मासत्रयेण कन्या निधनस्थ याति पंचत्वम् ॥' बुध इत्यनुवर्तते । पंचत्वं मरणम् । दंपत्योर्निधनस्थः सप्तदशाब्दाद्वियोगदो जीवः। पंचत्वं नयति भृगुनिधनस्थः सप्तभिर्वः ॥' इति शौनकोक्तः। नारदः-'कुजाष्टमो महादोषो लग्नादष्टमगे कुजे । शुभत्रययुतं लग्नं त्यजेत्तत्तुंगगे यदि ॥' अत्र संमतिः प्रागुक्ता। लग्नेद च पुनः सर्वे सूर्यादयो ग्रहा मदे सप्तमस्थाने न शस्ताः निषिद्धाः, 'सर्वे जामित्रसंस्था विदधति मरणम्' इति वसिष्ठोक्तेः। कश्यपोऽपि-सप्तमस्थानगाः सर्वे ग्रहाः कुर्वति शीघ्रतः। दंपत्योर्मरणं यद्वा स्थादेकस्य न संशयः ॥' इति । अर्थादन्येषु स्थानेषु ग्रहाः समीचीनास्तत्र केषुचित्स्थानेषु शुभा एव, केषुचिन्मध्यमा एवेत्येतदपि वक्ष्यति । अतोऽमु. मर्थमतिसंक्षिप्य त्रिविक्रमेण निषिद्धस्थानान्येवोक्तानि-'त्याज्या लग्नेऽब्धयो मंदाषष्ठे शुक्रंदुलग्नपाः । रंधे चंद्रादयः पंच सर्वेऽस्तेऽब्जगुरू समौ ॥' इति । अब्जगुर्वोः समत्वं शौनकमतेन तादृशविरुद्धफलाभावात् । यदाह'कन्यास्तिस्रो जनयति सापत्यं चैव सप्तमे शशिनि । शीलचरित्रोपेतां करोति पत्युः कलत्रगो द्वेष्याम् ॥' इति । गुरुरित्यनुवर्तते । अत्र वचनद्वयप्रामाण्याद्विकल्पः । यत्त्वत्रिणोक्तम्-'जामित्रगो यदि भवेदुशना बुधो वा गीर्वाणनाथसचिवः सितचंद्रपक्षे । कन्याविवाहसमये परिहृत्य दोषान्सौभाग्यपुत्रसहितां वनितां करोति ॥' इति, तञ्चंद्रजामित्रविषयम् । तथा च