________________
रेखादातृग्रहास्तत्फलं च] विवाहप्रकरणम् ६ ।
२९७ भुजबल:-'स्त्रीणां विवाहे तु बलैरुपेताः पत्युः प्रणाशं विहगा विदध्युः । त्यक्त्वा बुधं दैत्यगुरुं गुरुं च निशाकरादस्तगृहप्रपन्नाः ॥' इति । दैत्यगुरु शुक्रम् । अत एव दीपिका-रविमंदकुजाक्रांतं मृगांकात्सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्मप्रवेशने ॥' इति ॥ ८४ ॥ अथैवं निषिद्धस्थानान्यभिधायेदानीं रेखादातॄन् ग्रहान्वसंततिलकयाहव्यायाष्टषट्सु रविकेतुतमोकपुत्रा
रूयायारिगः क्षितिसुतो द्विगुणायगोऽजः। सप्तव्ययाष्टरहितौ ज्ञगुरू सितोऽष्ट
त्रियूनषव्ययगृहान्परिहत्य शस्तः ॥ ८५॥ त्रीति ॥ तृतीयैकादशाष्टमषष्ठस्थानेषु रविकेतुतमोर्कपुत्राः शस्ताः शुभफलदातारः । यदाह शौनकः-'बंधुजनेभ्यः पूजां त्रिंशद्वर्षाणि सहजगे वर्के । प्रामोति धनं षष्ठे व्यब्दादूचं सुतांश्चैव ॥ दंपत्योः सह मरणं निधनस्थेऽऽष्टसप्तत्या। कारयति धनविवृद्धिं त्र्यब्दादूर्ध्व तथायगः सविता ॥' इति रवेः। 'धनधान्यपुत्रयुक्तां पंचमसंवत्सरात्तृतीयस्थः । षष्ठः षड्भिर्मासैरसपत्नी कन्यकां कुरुते ॥ निधनगतोऽर्किः कुर्यादामरणादामयवियुक्ताम् । आयगतोऽर्किः कन्यां त्रिवर्गयोग्यां करोति षण्मासात् ॥' इति शनेः । अर्कस्यापत्यं अर्किः 'अत इञ्' इति इञ् , संज्ञापूर्वकस्य विधेरनित्यत्वादृद्ध्यभावः । सत्यां वा वृद्धौ 'नमुने' इति नेतियोगविभागादसिद्धत्वाभावात्संधिर्दीर्घः 'आयगतार्किः' इति पाठः । अथवा आयगतश्वासौ आर्किश्चायगतार्किः इत्येकं पदं,एवं निधनगतार्किः इत्यत्रापि । अत्र राहुकेत्वोश्च फलं शनिवदेवेति 'स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंस्थे' इति वसिष्ठोक्तेः। व्यायारिगः तृतीयैकादशषष्ठस्थानस्थितः क्षितिसुतो भौमः शस्तः, 'सहजस्थो भूमिसुतः सौभाग्यकरस्तु यावदायुष्यम् । संवत्सरेण विपुलं धनागमं शत्रुसंस्थस्तु ॥ मणिकांचनरत्नाढ्यामेकादशगः कुजोऽब्दषट्वेन ॥' इति शौनकोक्तेः । अब्जश्चंद्रो द्विगुणायगो द्वितीयतृतीयैकादशस्थः शस्तः, 'अब्दाद्धनसंयुक्तां करोति चंद्रो धने नार्याः । चंद्रस्तृतीयराशौ सौभाग्यकरस्तु यावदायुष्यम् ॥ लग्नादेकादशगः कन्यामिदुर्धनान्वितां कुरुते ॥' इति शौनकोक्तेः । ज्ञगुरू बुधबृहस्पती सप्तमद्वादशाष्टमातिरिक्तस्थानस्थितौ शस्तौ । उक्तस्थानानां अशुभत्वादनुक्तस्थानानां च शुभदातृत्वात् । यदाह वसिष्ठः-'प्रीतिवृद्धिः सुगुणनिरतिबंधुपूजा सुताप्तिः सद्वैपक्ष्यं तनयरहितत्वं तथा भर्तृनाशः। धर्मे बुद्धिर्भवति धरणीलब्धिरत्यंतबुद्धिहानिः स्त्रीणां हिमकरसुते लग्नभावादिसंस्थे ॥' इति । 'लक्ष्मीप्राप्तिर्भवति सुयशः प्रीतिरन्योन्यवृद्धि रिष्टप्राप्तिर्बहुविधमयं चाश्रमाणां विरक्तिः । पापासक्तिः सुकृतनिरतिभूरिलाभः सुरेज्ये स्त्रीणां सौख्यं रिपुकृतभयं लग्नभावादिसंस्थे॥' इति । अयं शुभं दैवम् । 'अयः शुभावहो विधिः' इत्यमरः । क्लीबत्वं त्वार्षम् । केचित्-'बहुविधमयम्' इत्यत्र 'बहुविधभयम्' इति पठंति, तत्