________________
२९८
मुहूर्तचिंतामणिः। [कर्तर्यादिदोषापवादाः मकारे भशब्दभ्रांतेः । 'उभयकुलानंदकरी करोति न चिराद्गुरुः षष्ठे' इति षष्ठस्थानस्थितगुरोः शौनकेनापि सम्यक्फलाभिधानाच्च । सित इति ।अष्टमतृतीयसप्तमषष्ठद्वादशस्थानानि परिहृत्य त्यक्त्वान्येषु स्थानेषु सितः शुक्रः शस्तः । तदुक्तं वसिष्ठेन-भोगप्राप्तिर्विविधविभवं स्वैरवृत्तिर्महत्त्वं द्युम्नाधिक्यं भवति निधनं सर्वनाशो वसुत्वम् । तथ्यप्रीतिर्बहुविधगुणाः सर्वसंपत्समृद्धिरस्वं स्त्रीणामुशनसि तथा लग्नभावादिसंस्थे ॥' इति । द्युम्नं द्रविणम् । 'हिरण्यं द्रविणं द्युम्नम्' इत्यभिधानात् । मूले गृहशब्दः पुलिंगः, 'गृहाः पुंसि च भूम्येव' इत्यमरः । अतो बुधगुरुशुक्राणां शुभाशुभस्थानोक्तेः शुभाशुभफलत्वमेव, न कदाचिन्मध्यमत्वम् । अन्येषां तु शुभाशुभस्थानातिरिक्तस्थानसद्भावान्मध्यमत्वमप्यस्ति । उत्कृष्टशुभाशुभफलानभिधानात् । किंतु किंचिन्मध्यमफलाभिधानम् । तदुक्तं वसिष्ठेन-'मृत्यु३ःस्वं बहुविधधनं भ्रातृहानिः प्रजानां व्याधिः सौख्यं बहुविधमतो भर्तृहानिश्चिरायुः। श्रेयोहानिर्भवति हृदयव्याधिरर्थागमश्च भानौ स्त्रीणामतिशयरुजा लग्नभावादिसंस्थे॥ नाशः संपद्बहुविधयशो बंधुवृद्धिः प्रजाप्तिः शस्त्रान्मृत्युभवति न चिरादीर्घसापत्यबाधा । प्रव्रज्यात्वं दुहितृजननं वर्धनं भोगभाक्त्वं दास्यं स्त्रीणां तुहिनकिरणे लग्नभावादिसंस्थे ॥' इति । अत्र चतुर्थचंद्रस्य प्रजाप्तिः फलमभिहितम् । तथैव श्रीपतिनापि । तथापि तद्वाक्ये 'सुखे तु कथितो बंधुक्षयः कैश्चन' इत्येकीयमतमनुसृत्य ग्रंथकृता चतुर्थस्थानस्य मध्यमत्वमंगीकृतम् । 'बंधुश्वशुरवियुक्तां चतुर्थसंस्थः शशी त्वष्टात्' इति शौनकोक्तेश्च । विरुद्धार्थयोः शौनक-वसिष्ठवाक्ययोः का गतिरिति चेत् । बालचंद्रविषयमशुभफलम् । तद्भिन्नचंद्रविषयं शुभफलम् । उक्तं च केशवा•ण- 'बालोऽजः प्रियविरहं शनिः स्तनांभःशून्यत्वं सृजति सुखे सुवासिनीनाम्' इति । पुनर्वसिष्ठः-'मृत्युः शोको बहुविधधनं भ्रातृवैरं कुबुद्धिलक्ष्मीप्राप्तिर्भवति मरणं चोभयोवंशनाशः । स्त्रीणां द्वेषो व्यसननिरतिः पुत्रपौत्रादिसिद्धिर्भीतिर्भूमेर्बलिनि तनये लग्नभावादिसंस्थे ॥ स्वच्छंदत्वं कदशनरतिर्वल्लभत्वं विशीलं व्याधिः सुश्रीम॒तिरथ सुखं गर्भपाकप्रवृत्तिः । द्यूतासक्तिर्भवति रविजे वैभवं वक्ररोगं स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंस्थे ॥' इति ॥ ८५॥ अथ लग्नभंगिकर्तर्यादिमहादोषाणामपवादं शार्दूलविक्रीडितेनाहपापौ कर्तरिकारको रिपुगृहे नीचेऽस्तगौ कर्तरी
दोषो नैव सितेऽरिनीचगृहगे तत्पष्टदोषोऽपि न । भौमेऽस्ते रिपुनीचगे न हि भवेद्भौमोऽष्टमो दोषक
नीचे नीचनवांशके शशिनि रिसफाष्टारिदोषोऽपि न॥८६॥ पापाविति ॥ तत्र कर्तर्यपवाद उच्यते । कर्तरीयोगलक्षणम् 'लग्नात्पापौ' (६।४२) इत्यादिनोक्तम् । यौ ग्रहो क्रूरौ कतरिकारको रिपुगृहे शत्रुगेहे स्थितौ नीचेऽस्तगौ स्वनीचराशिस्थितौ अस्तंगतौ वा तदा कर्तरीदोषो नैव स्यात् । यदाहः
१ बाल्येऽब्जः प्रियवियुतिमिति पाठः ।