________________
विवाहदोषापवादाः] विवाहप्रकरणम् ६ ।
२९९ कश्यपनारदवसिष्ठाः-'पापयोः कर्तरीकोंः शत्रुनीचगृहस्थयोः । यदा चास्तगयोर्वापि कर्तरी नैव दोषदा ॥' इति । इदं विशेषणं शत्रुगृहस्थत्वादिकं समुच्चितं व्यस्तं समस्तं वा ध्येयम् । ननु 'कर्तरिकारकौ' इत्यत्र कथं ह्रस्वत्वम् ? यावता कर्तरीशब्द 'उणादयो बहुलम्' इति बहुलोक्तेः 'कृती छेदने' इत्यस्मा. द्धातोर्निष्पन्नस्तत्र यदीकारांतस्तदा ड्यंतत्वाभावात् 'ड्यपोः संज्ञाछंदसोर्बहुलम्' इति हस्वत्वं न प्राप्नोति । यदापि-'कृदिकारादक्तिनः' इति ड्यंतत्वं तदा संज्ञाछंदसोरेवाभावाद्धस्वो न स्यात् । उच्यते-बहुलवचनादसंज्ञायामप्येवंविधे प्रयोगे ह्रस्व इति दुर्घटवृत्तिकृत् । अत एव 'वैदेहिबंधोर्हदयविद' इति कालिदासः। 'स्यादेतदेव प्रमदवनमंतःपुरोचितम्' इत्यमरसिंहोऽपि प्रयुक्तवान् । अपवादातरमुक्तं दैवज्ञमनोहरे गर्गः-'क्रूरकर्तरिसंयुक्तं लग्नं चंद्र च न त्यजेत् । केंद्र त्रिकोणसंस्थेषु गुरुभार्गववित्सु च ॥ इति । अन्यत्रापि पठ्यते । 'विधौ धनोपगे शुभग्रहेऽथवांत्यगे गुरौ । न कर्तरी भवत्यहो जगाद बादरायणः ॥' इति । क्रूरद्वयस्यांतरगं विलग्नं मृतिप्रदं चंद्रमसं च रोगदम् । शुभैर्धनस्थैरथवांत्यगे गुरौ न कर्तरी स्यादिह भार्गवा विदुः ॥' इति । अथ षष्ठशुक्रापवाद उच्यते-सिते शुक्रेऽरिनीचगृहगे शत्रुगृहे स्वनीचगृहगे वा सति तत्षष्ठदोषो भृगुषष्ठदोषोऽपि न स्यात् । यदाह कश्यपः'नीचराशिगते शुक्रे शत्रुक्षेत्रगतेऽपि वा । भृगुषष्ठोत्थितो दोषो नास्ति तत्र न संशयः ॥' इति । अथाष्टमभौमदोषापवाद उच्यते-भौमेऽस्ते अस्तंगते रिपुनीचगे शत्रुगृहे वा स्वनीचगृहगे वासति अष्टमो भौमो न दोषकृत्स्यात् । उक्तं च कश्यपेन-'अस्तगे नीचगे भौमे शत्रुक्षेत्रगतेऽपि वा। कुजाष्टमोद्भवो दोषो न किंचिदपि विद्यते ॥' इति । अथ षडष्टद्वादशस्थानचंद्रापवाद उच्यते-शशिनि चंद्रे नीचे वा नीचनवांशके वा सति रिःफाष्टारिदोषोऽपि द्वादशाष्टमशत्रुस्थानस्थितचंद्रदोषोऽपि न स्यात् । 'नीचराशिगते चंद्रे नीचांशकगतेऽपि वा । चंद्रे षष्ठारिरिःफस्थे दोषो नास्ति न संशयः ॥' इति कश्यपोक्तेः ॥ ८६ ॥ अथ विवाहे अब्ददोषाद्यनेकदोषाणामपवादं वसंततिलकयाह
अब्दायनर्तुतिथिमासभपक्षदग्ध
तिथ्यंधकाणबधिरांगमुखाश्च दोषाः । नश्यंति विद्गुरुसितेष्विह केंद्रकोणे
___ तद्वच्च पापविधुयुक्तनवांशदोषः ॥ ८७॥ अब्देति ॥ अब्ददोषः लुप्ताब्दादिः । १ अयनदोषः दक्षिणायनादिः । २ ऋतुदोषः वर्षादिः । ३ तिथिदोषो रिक्तादिः । ४ मासदोषः । ५ भं नक्षत्रदोषः क्रूरसाहित्यादिः। ६ पक्षदोषस्त्रयोदशदिनात्मकादिः।७ दुग्धातिथिः प्रसिद्धाः चापांत्यगे इत्यादिना अंधकाणबधिराख्यान्यंगानि लग्नानि तन्मुखा