________________
मुहूर्तचिंतामणिः । [ अनुक्तदोषपरिहाराः
स्तदादयोऽन्ये अकालवृष्ट्याद्या दोषा विगुरुसितेषु केंद्रकोणे केन्द्र सप्तमस्थानरहितं विवक्षितं, जामित्रदोषस्य सत्त्वात् । अत एवोक्तमग्रे 'त्रिकोणे केंद्रे वा मदनरहिते' (६।८९) इति । कोणे नवपंचमे सत्सु नश्यंति । उक्तं च कश्यपेन'अब्दायनर्तुमासोत्थाः पक्षतिथ्यृक्षसंभवाः । ते सर्वे नाशमायांति केंद्रसंस्थे शुभग्रहे । काणांधबधिरोद्भूता दग्धलग्नतिथेर्भवाः । ते दोषा नाशमायांति केंद्रसंस्थे शुभग्रहे ॥' इति । 'अकालजाश्च नीहारविद्युत्पांस्वभ्रसंभवाः । परिवेषप्रति सूर्यशक्रचापध्वजादयः ॥ दोषप्रदा मंगलेषु कालजाश्चेन्न दोषदाः । गुरुरेकोऽपि केंद्रस्थः शुक्रो वा यदि वा बुधः ॥ हरेः स्मृतिर्यथा हंति तद्वद्दोषानकालजान् । लत्तोपग्रह चंडीश चंद्र जामित्रसंभवान् ॥ तत्केंद्वगो गुरुर्हति सुपर्णः पन्नगानिव ॥' इति । अकालजत्वनिर्णयं यात्राप्रकरणे - 'यदि मास्सु चतुर्षु' ( ११।९५) इत्यादिना वक्ष्यति । तद्वच्चेति । तथा यदि पापः क्रूरो विधुयुक्तराशेर्नवांशे स्यात् ; यथा - चंद्रो मेषे सूर्य नवांशस्तद्दोषाभिधानं यज्ञोपवीतप्रकरणे तदा तत्कृतदोषोऽपि नश्यति । उक्तं च संहिताप्रदीपे - 'सचंद्रराशेरशुभो नवांशः प्रोक्तः सपापोsपि विलग्नसंस्थः । त्रिकोणकेंद्रेषु गुरुः सितो वा यदा तदासावशुभोsपि शस्तः ॥' इति ॥ ८७ ॥
३००
अथोक्तानुक्तदोषाणां बहून्परिहारान् शालिन्याहकेंद्रे कोणे जीव आये खौ वा लग्ने चंद्रे वापि वर्गोत्तमे वा । सर्वे दोषा नाशमायांति चंद्रे लाभे तद्वद्दुर्मुहूर्तांशदोषाः ॥ ८८ ॥
केंद्रे इति ॥ केंद्रे कोणे, केंद्रं प्रसिद्धं; कोणं नवपंचमं; तत्र च जीवो गुरुः स्यात्तदा सर्वे दोषा नाशमायांति । उपलक्षणत्वादुधशुक्रावपि । यदाह नारदः – 'उक्तानुक्ताश्च ये दोषास्तान्निहंति बली गुरुः । केंद्रसंस्थः सितो वापि पन्नगान्गरुडो यथा ॥' इति । सितो बुधस्याप्युपलक्षणम् । उक्तं च कश्यपेन - 'काव्ये गुरौ वा सौम्ये वा यदा केंद्रत्रिकोणगे । नाशं यांत्य - खिला दोषाः पापानीव हरौ स्मृते ॥' इति । तत्रापि लग्नाख्यकेंद्रस्यातिबलवत्त्वात्तत्र स्थितो जीवः सर्वारिष्टहरः । तदुक्तं वसिष्ठेन – 'ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः । लग्ने गुरुस्तान्विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥' इति । अथवा, आये एकादशे रवौ सति दोषनाशः । 'यत्रैकादशगे सूर्ये दोषा नाशं ययुस्तदा । स्मरणादेव रुद्रस्य पापं जन्मशतोद्भवम् ॥' इति । अथवा, लग्ने वर्गोत्तमे स्वनवांशयुक्ते यथा मिथुने मिथुनांशश्च तदा दोषनाशः । अथवा, चंद्रे वर्गोत्तमे स्वनवांशस्थिते वा सति दोषनाशः । द्वितीयवाशब्दस्यानुक्तसमुच्चयार्थत्वाचंद्रो लग्नादुपचयस्थाने चेत्स्यात्तदापि सर्वदोषनाशः । एवं क्रमेण परिहारत्रयमुक्तम् । यदाह कश्यपः – 'वर्गोत्तमगते लग्ने वर्गदोषा लयं ययुः । चंद्रे चोपचये वापि ग्रीष्मे कुसरितो यथा ॥' इति । चंद्रे इति तद्वत्तेनैव प्रकारेण दुर्मुहूर्ता