________________
विंशोपकाः] विवाहप्रकरणम् ६ ।
३०१ रवावर्यमेत्यादयः अंशदोषाः पापग्रहनवांशाख्यास्ते सर्वे चंद्रे लाभे एकादशस्थानस्थिते सति नाशमायांति । कश्यपोक्तं च 'मुहूर्तलग्नषड्वर्वकुनवांशग्रहोद्भवाः । ये दोषास्तानिहत्येव यत्रैकादशगः शशी ॥' इति । अन्यदप्याह कश्यपः-'लग्नाइःस्थानगव्योमचरोत्थं दोषसंचयम् । शुभः केंद्रगतो हंति दावाग्निर्विपिनं यथा ॥' इति ॥ ८८ ॥
अथैवं विशिष्यदोषाभिधानपूर्वकं विशेषपरिहारानभिधायेदानी सामान्यतो दोषसमुदायस्यैकं परिहारं शिखरिण्याह
त्रिकोणे केंद्रे वा मदनरहिते दोषशतकं
हरेत्सौम्यः शुक्रो द्विगुणमपि लक्षं सुरगुरुः । भवेदाये केंद्रेऽङ्गप उत लवेशो यदि तदा
समूहं दोषाणां दहन इव तूलं शमयति ॥ ८९ ॥ त्रिकोण इति ॥ त्रिकोणे ९।५ केंद्रे सप्तमरहिते १।४।१० यदि सौम्यो बुधस्तिष्ठेत्तदा दोषशतकं हरेत् । उक्तस्थानस्थितः शुक्रोऽपि द्विगुणं दोषशतकं दोषद्विशतं हरेत् । तथोक्तस्थानस्थितो गुरुरपि लक्षं दोषान् हरेत् । यदाह नारदः-'दोषाणां हि शतं हंति बलवान्केंद्रगो बुधः । अपहाय द्युनं, शुक्रो द्विगुणं लक्षमंगिराः ॥' अत्र शतशब्देनानेकसंख्यात्वं विवक्षितम् । अत एवाह कश्यपः-'बलवान्केंद्गः सौम्यो हंति दोषशतत्रयम् । घुनं विहाय दैत्येज्यः सहस्रं लक्षमंगिराः ॥' इति । भवेदिति । अङ्गपः लग्नस्वामी । उतशब्दो वार्थे । लवेशो लग्नगतांशनाथो वा आये ११ केंद्रे १।४।१० यदि भवेत्तदा सः दोषाणां समूहं शमयति । तत्र दृष्टांत:-दहनोऽग्निस्तूलं कासमिव शमयति । तदुक्तं नारदेन-'लग्नेट् लग्नांशनाथो वा चायगः केंद्रगोऽपि वा। राशिं निहंति दोषाणामिन्धनानीव पावकः ॥' इति । जातकेऽपि-'लग्नाधिपो यदा केंद्रे लग्नादेकादशालये । सर्वग्रहकृतं रिष्टमेकोऽपि विलयं नयेत् ॥' इति ॥ ८९ ॥ अथ लग्नविंशोपकाननुष्टुभाह
द्वौ द्वौ ज्ञभृग्वोः पंचेंदौ रवौ सार्धत्रयो गुरौ ।
रामा मंदागुकेत्वारे साधैकैकं विशोपकाः ॥९० ॥ द्वाविति ॥ ज्ञभृग्वो रेखाप्रदयोः सतोद्वौं द्वौ विंशोपकौ । यथा-बुधस्य २, शुक्रस्य २, एवंविधे चंद्रे पंच ५, तादृशे सूर्ये सार्धत्रयः ३।३०, गुरौ रामास्त्रयः ३, एकमेकमेकैकं च साधैंककम् । एकशब्दस्य 'नित्यवीप्सयोः' इति द्विर्वचने 'एक बहुव्रीहिवत्' इति बहुव्रीहिवद्भावात् 'सुपो धातु-' इति विभक्तेलुकि सार्धशब्देन कर्मधारयस्तथा सति प्रत्येकं साधैंककमित्यर्थः । यथा-मंदे शनौ साधैंकम् ११३०, अगौ राहौ ११३०, केतौ १३०, भारे
२६ मु० चि०