________________
३०२
मुहूर्तचिंतामणिः । [संकरजविवाहे नियतकालः भौमे ॥३०; एते विंशोपका रेखादातृग्रहाणां ज्ञेयाः, न मध्यमानां । निषिद्धानां च न । यदाह वराहः-'रवौ सार्धास्त्रयो भागाश्चंद्रे पंच गुरौ त्रयः । द्वौ शुक्र द्वौ बुधे चैव प्रोक्ता ह्येते विशोपकाः ॥ मंदे भौमे तथा राहौ साधं प्रत्येकमुच्यते । बलाबलवशादेवं विज्ञातव्या विशोपकाः ॥' इति । अत्र पद्ये राहोरुपलक्षणत्वात्केतोरपि साधैंकमेव बलं ग्राह्यमत एव मूले केत्वभिधानम् । नन्विदमयुक्तं; यतो नवग्रहप्राबल्ये सार्धेकविंशति २१३० विंशोपकात्मको योगो भवेत् , स चासंभवादनुपपन्नः; अत्युत्कृष्टे हि लग्ने विंशतिविंशोपकात्मकमेव बलं स्यान्न ततोऽधिकमिति। उच्यते,-विवाहादिलग्ने द्वयोरपि राहुकेत्वोयुगपत्समीचीनत्वस्य गगनकुसुमायमानत्वाद्यदैकस्य शुभत्वमपरस्याशुभत्वमिति तदैव विंशतिविंशोपका लग्ने संभवंति । द्वयोरप्यनिष्टत्वे सार्धाष्टादश । एवं यस्य यस्य ग्रहस्य रेखादातृत्वहानिस्तस्य तस्य तद्विंशोपकहानिरित्यर्थः । तत्र पंचभ्यो विंशोपकेभ्यो हीनं लग्नं त्याज्यमेव । पंचभ्योऽधिकं दशभ्यो हीनं निकृष्टफलं लग्नांतराभावे हितं । दशभ्योऽधिकं पंचदशभ्यो हीनं मध्यं ततोऽधिकं तूत्तममेवेति निष्कृष्टोऽर्थः ॥ ९ ॥
अथ ग्रहवशेन श्वशुरादिविभागज्ञानं सप्रयोजनमुपजात्याहश्वश्रूः सितोऽर्कः श्वशुरस्तनुस्तनुर्जामित्रपः स्यादयितो मनः शशी। एतद्धलं संप्रतिभाव्य तांत्रिकस्तेषां सुखं संप्रवदेद्विवाहतः ॥११॥ ___श्वभूरिति ॥ शुक्रः श्वश्रूः, सूर्यः श्वशुरः । अत्र कन्यानिमित्तशुभाशुभस्य विचारास्पदत्वात्तस्याः कन्यायाः श्वश्रूर्वरमाता श्वशुरो वरपिता तनुर्लग्नं तनुः स्वशरीरं जामित्रपः सप्तमाधीशो दयितो भर्ता ज्ञेयः शशी मनो ज्ञेयं; एतदलं एतेषां शुक्रादीनां बलं विचार्य तांत्रिकः तंत्रं सिद्धांतः 'तंत्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे' इत्यमरः । तं वेत्ति तांत्रिकः सिद्धांतवेत्ता ज्योतिर्वित् विवाहतो विवाहादनन्तरं तेषां श्वश्वादीनां सुखं स्यादिति प्रवदेत् । यदाह शौनकः-श्वशुरः सहस्रकिरणः श्वश्रू गुनंदनो विनिर्दिष्टः । होरागमार्थकुशलैर्जामित्रपतिः पतिः स्त्रीणाम् ॥ शारीरं लग्नवशात्सुखदुःखं मानसं शशांकवशात् ॥' इति । शाीयेऽपि—'श्वशुरोऽर्कः सितः श्वश्रूः स्त्रीणामस्तपतिः पतिः । एभिरुच्चोपगैरेषां शुभं नीचादिगैरसत् ॥' इति । विशेषांतरमप्युक्तं शाीये एव-'सूर्यात्पतिः स्त्री च विधोस्तथाराद्वित्तं सुतो ज्ञाच्छशुरं गुरोश्च । धर्मः सितादर्कसुताच वेश्म ब्रूयात्समुद्वाहविधौ युवत्याः॥' 'एतै चस्थितैः शत्रुगतैवैवाहिकं न सत् । स्वगृहोचत्रिकोणस्थैः शुभमेषां यथोदितम् ॥' इति ॥ ९१ ॥ ___ अथ संकीर्णजातीनां विवाहे नियतं कालविशेष मत्तमयूरछंदसाह
कृष्ण पक्षे सौरिकुजार्केऽपि च वारे
वये नक्षत्रे यदि वा स्यात्करपीडा । । १ समुद्राहविधौ स्वयुक्त्या' इति पाठः ।