________________
३०३
प्राकर्तव्यकर्मणां दिनशुद्धिः] विवाहप्रकरणम् ६ ।
संकीर्णानां तर्हि सुतायुर्धनलाभ
प्रीतिप्राप्य सा भवतीह स्थितिरेषा ॥ ९२॥ कृष्णेति ॥ कृष्णे पक्षे शनिभौमार्कवारे विवाहोक्तनक्षत्रादिभिन्ननक्षत्रेषु चकारात् 'व्याघातशूले' इत्यादिदुष्टयोगेष्वपि यदि संकीर्णानां अनुलोमप्रतिलोमजानां करपीडा विवाहः स्यात् तर्हि सा करपीडा सुतायुर्धनलाभप्रीतिप्राप्त्यै भवति । एषा स्थितिराचारोऽस्ति । अनुलोमजा मूर्धावसिक्तादयः। प्रतिलोमजाश्चाण्डालादयः । तल्लक्षणानि धर्मशास्त्रे तत एवावधार्याणि । वाग्रहणमेतदभावे विवाहाद्यावश्यकत्वे च प्रागुक्तदिनेऽपि कार्यमिति सूचनार्थम् । तदुक्तं शाीये-'कृष्णे पक्षे भानुभौमार्कजानां वारे योगे चापि धिष्ण्ये निषिद्धे । संकीर्णानां दारकर्म प्रशस्तं प्रीत्यर्थायुःप्राप्तये शौनकाद्याः ॥' इति । केशवार्कोऽपि-'प्रायेण संकरभुवामशुभक्षपक्षक्रूरक्षणेषु शुभकृत्करपीडनं स्यात्' इति ॥ ९२ ॥
अथ गांधर्वादिदुष्टविवाहे त्रिपदीचक्रे नक्षत्रशोधनमनुष्टुभाहगांधर्वादिविवाहेऽकाद्वेद४नेत्ररगुणें३दवः १ । कु१युगांगादमि३भूपरामाईत्रिपद्यामशुभाः शुभाः॥ ९३॥
गांधर्वादीति ॥ गांधर्वादिविवाहाः सलक्षणाः प्रागसाभिरभिहिताः, तेषु अर्कात् सूर्याक्रांतनक्षत्रमारभ्य चत्वार्यशुभानि, ततो द्वे शुभे, ततस्त्रीण्यशुभानि, तत एकं शुभं, तत एकमशुभं, ततश्चत्वारि शुभानि, ततः षडशुभानि, ततस्त्रीणि शुभानि, तत एकमशुभं, ततस्त्रीणि शुभानि; एतान्यष्टाविंशतिभानि त्रिपद्यामशुभशुभान्येव ज्ञेयानि । त्रयाणां पदानां समाहारस्त्रिपदी तत्र, ब्रह्मविष्णुरुद्रपदाभिधचक्रत्रये इत्यर्थः । अत्र संमतिग्रंथानुपलंभः ॥ ९३ ॥
अथैवं महता ग्रंथसंदर्भेण विवाहे सकलदोषमहादोषरहितां दिनशुद्धिमभिधायेदानीं ततः प्राकर्तव्यानामावश्यककर्मणां दिनशुद्धिं पृथ्वीछंदसाहविधोर्बलमवीक्ष्य वा दलनकंडनं वारकं ।
गृहांगणविभूषणान्यथ च वेदिकामंडपान् । विवाहविहितोडुभिर्विरचयेत्तथोद्वाहतो
न पूर्वमिदमाचरेत्रिनवषण्मिते वासरे ॥ ९४ ॥ विधोरिति ॥ अत्र विधोश्चंद्रस्य बलमवीक्ष्यागृहीत्वा वाग्रहणात् सत्यवकाशे चंद्रबलं ग्राह्यं । दलनं गोधूमादेः पिष्टीकरणं, कंडनं तंडुलादेः मुसलाद्याघातादिना शोधनं, एतयोः द्वंद्वैकवद्भावः । वारको मंगलकलशः, गृहांगणविभूषणानि गृहभूषणानि चूर्णगैरिकचित्रादिलेखादी नि, अंगणभूषणं संमार्जनगोमयाद्यालेपः । अथानंतरं वेदिका चत्वरं वधूवरयोरुपवेशनार्थ स्थल