________________
३०४
मुहूर्तचिंतामणिः। [शुभे दिलक्षणम् विशेषः, मंडपो गृहाच्छादनं कटादिना वितानादिना वा । बहुवचनात्कटाहाद्यारोहणहरिद्राचंदनकांजिकाधारणादिसकलशुभप्रारंभान् एतानुद्वाहतः पूर्व विवाहोक्तैरुडुभिर्नक्षत्रैः पंचांगशुद्धिसहिते दिने रचयेत् । उपलक्षणत्वाद्यज्ञोपवीतादावपि । ततः पूर्व तन्नक्षत्रैरेतानभिहितशुभकर्मप्रारंभान् विरचयेत् । तथा इदमुक्तं कार्यजातं त्रिनवषण्मिते तृतीय-नवम-षष्ठमिते वासरे दिने पूर्व नाचरेत् । तदुक्तं शाीये-'दलनकंडनमंडपवेदिकागृहसुमार्जनवारकमंडपाः । करतलग्रहमध्यगतागतं तदखिलं विदधीत विवाहभे ॥ विवाहकृत्यं निखिलं विवाहभे विलोकयेन्नात्र बलं हिमश्रुतेः । नवत्रिषष्ठेऽह्नि विवाहपूर्वतो न वर्णको मंडपतैलमंगलम् ॥' इति । दैवज्ञमनोहरे निषिद्धभान्युक्तानि-'चित्राविशाखाशततारकाश्विनी ज्येष्ठाभरण्यौ शिवभाच्चतुष्टयम् । हित्वा प्रशस्तं फलतैलवेदिकाप्रदानकं कंडनमंडपादिकम् ॥' इति । कांजिकाधारणमुहूर्तोऽपि तत्रैव-'मूलेंदुरुद्रश्रवणार्कपोष्णविश्वेशचित्रानलरेवतीषु । संस्थापनं कांजिककुंडिकाया वारे रवेभूमिसुतस्य शस्तम् ॥' इति । वेदिकायां विशेषमाह केशवार्कः-'वेदिकां विरचयेद्यथा तथा स्थादियं प्रविशतः प्रदक्षिणा । स्युर्जनाश्रययवोप्तिवर्णकाः षण्णवत्रिदिवसेषु नाग्रतः ॥' इति । यवोप्तिः अंकुरार्पणाख्यं कर्म । जनाश्रया=मंडपः । 'मंडपोऽस्त्री जनाश्रयः' इत्यमरोक्तेः ॥ ९४॥
अथावसरप्राप्तवेदिकालक्षणं मंडपोद्वासनमुहूर्त च शालिन्याहहस्तोच्छ्राया वेदहस्तैः समंतात्तुल्या वेदी समनो वामभागे । युग्मे घो षष्ठहीने च पंच सप्ताहे स्यान्मंडपोद्वासनं सत् ॥९५॥
हस्तेति ॥ सद्मनो गृहस्य वामभागे हस्तोच्छ्राया एकहस्तमितोचा समंतासर्वतः चतुर्भिहस्तैस्तुल्या समाना तादृशी वेदी विवाहादिमंगलकृत्ये स्यात् । 'शोभाकारिस्तंभसोपानादियुक्ता च' इत्यनुक्तमपि ध्येयम् । तदुक्तं नारदेन-'हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समंततः। स्तंभैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे स्वसद्मनः ॥ समंडपां चतुर्दिश्च सोपानरुपशोभिताम् । प्रागुदक्प्रवणारंभां स्तंभहंसशुकादिभिः ॥ विचित्रितां चित्रकुंभैर्विचित्रैस्तोरणांकुरैः । एवंविधा समारोहेन्मिथुनं साग्नि वेदिकाम् ॥' इति । साग्नीति भिन्नं पदं मिथुनस्य विशेषणम् । वसिष्ठः-'षोडशारनिकं कुर्याच्चतुर्धारोपशोभितम् । मंडपं तोरणैर्युक्तं तत्र वेदिं प्रकल्पयेत् ॥ अष्टहस्तं च रचयेन्मंडपं वा द्विषट्करम् ।' इति । द्विगुणिताः षट्करा यस्य तं द्वादशहस्तम् ; उत्तमः षोडशहस्तः, मध्यमो द्वादशहस्तः, अधमोऽष्टहस्तः । अयं वैकल्पिको मंडपो गृहमानत एव कार्यों नतु खेच्छया। तदुक्तं सप्तर्षिमते विवाहपटले-'मंगलेषु च सर्वेषु मंडपो गृहमानतः। कार्यः षोडशहस्तो वा द्विषड्वस्तो दशावधि ॥ स्तंभैश्चतुर्भिरेवान वेदी मध्ये प्रतिष्ठिता। शोभिता चित्रिता कुंभैरासमंताच्चतुर्दिशम् ॥ द्वारविद्धा बलीविद्धा कूपवृक्षव्यधा तथा। न कार्या वेदिका तज्ज्ञैः शुभा मंगलकर्मसु ॥' बली-काष्ठपाषाणादिनिर्मितस्तंभः । व्रतबंधे संस्कार्यत्वात्