________________
गोधूलिकमुहूर्तप्रशंसा] विवाहप्रकरणम् ६ ।
३०५ बटुहस्तेन वेदीनिर्मितिः । विवाहे तु कन्यागृहे एव वरपूजनस्योक्तत्वाद्गृहस्थाश्रमस्य तदायत्तत्वाच कन्याहस्तेनैव वेदीनिर्माणम् । युग्मे इति । विवाहोत्तरं युग्मे समे द्वितीयचतुर्थादिके घरो दिने षष्ठदिवसहीने, तथा विषमे तु पंचमे सप्तमे चाहनि दिवसे मंडपोद्वासनं देवकोत्थापनं सच्छुभफलदातृ स्यात् । यदाह नारदः-'समे तु दिवसे कुर्याद्देवकोत्थापनं बुधः । षष्ठं च विषमं नेष्टं मुक्त्वा पंचमसप्तमौ ॥' इति । समेषु षष्ठं विषमेषु च पंचमसप्तमव्यतिरिक्तं दिनं नेष्टमित्यर्थः ॥ ९५॥
अथ प्राच्यशिष्टसंमतं मंडपादौ स्तंभनिवेशनमिंद्रवज्रयाहसूर्येऽगनासिंहधटेषु शैवे स्तंभोलिकोदंडमृगेषु वायौ। मीनाजकुंभे निर्ऋतौ विवाहे स्थाप्योऽग्निकोणे वृषयुग्मककै ॥९६॥
सूर्य इति ॥ कन्यासिंहतुलास्थिते सूर्ये शैवे ईशानकोणे, वृश्चिकधनुर्मकरस्थिते सूर्ये वायौ वायुकोणे, मीनमेषकुंभस्थिते सूर्ये निर्ऋतिकोणे, वृषमिथुनकर्कस्थिते सूर्येऽग्निकोणे स्तंभः स्थाप्य इत्यर्थः । यदाह शिल्पशास्त्रे विश्वकर्मा-'कन्यासिंहे तुलायां भुजगपतिमुखं शंभुकोणेऽग्निखातं वायव्ये स्यात्तदास्यं मकरधनुरलावीशखातं वदंति । कुंभे मीने च मेषे निर्ऋतिदिशि मुखं वायुकोणे हि खातं वह्नेः कोणे मुखं वै वृषमिथुनगते कर्कटे रक्षखातम् ॥' इति । एतद्यद्यपि गृहविषयमुक्तं तथापि वेदिनिर्माणाश्रयेण स्तंभनिवेशनं वृषादित्रित्रिराशिगतसूर्यवशेनाग्निकोणे सास्यं शिवकोणे खातम् , एवमन्यत्र राशिगते सूर्येऽन्यकोणेषु स्तंभनिवेशनमूह्यम् । यदाह विश्वकर्मा-'वेद्यां वृषाद्गृहे सिंहात्रिकं मीनात्सुरालये। ईशानतो व्यस्तगत्या पृष्ठं तस्य शुभावहम् ॥' इति । तस्य भुजगपतेः ॥ ९६ ॥ - अथैवं लग्ननिर्णयमभिधायेदानी घटिकालग्नसाधनं बहुगणितसाध्यं गोधूलिकथनं च गणितप्रयासरहितं वक्तुमवशिष्यते, तत्र सूचीकटाहन्यायेन गोधूलिप्रशंसां मंदाक्रांतयाहनास्यामृक्षं न तिथिकरणं नैव लग्नस्य चिंता
नो वा वारो न च लवविधिों मुहूर्तस्य चर्चा । नो वा योगो न मृतिभवनं नैव जामित्रदोषो
गोधूलिः सा मुनिभिरुदिता सर्वकार्येषु शस्ता ॥ ९७ ॥ नेति ॥ स्पष्टार्थमिदं पद्यम् । यदाह भागुरिः-'गोपैर्यष्ट्याहतानां खुरपुटदलिता याति धूली दिनांते सोद्वाहे सुंदरीणां विविधधनसुतारोग्यसौभाग्यदात्री । तस्मिन् काले न ऋक्षं न च तिथिकरणं नैव लग्नं न योगाः ख्याताः पुंसां सुखार्थ शमयति दुरितान्युच्छ्रितं गोरजस्तु ॥' ननु सकलदोषनिराकरणेनातिप्रशंसनाद्गोधूल्याः घटिकालग्नानां महादोषनिराकरणपूर्वकम