________________
मुहूर्तचिंतामणिः । [गोधूलिकभेदः भिहितानां वैयर्थ्यप्रसंगः। न च गोधूल्यभावे घटीलग्नमवकाशवदिति वाच्यम् । गोधूल्यभावो हि दोषसत्त्वे सति स्यात् , 'न ऋक्षं न च तिथिकरणम्' इत्यादिना स्थूलसूक्ष्मसकलदोषापवादार्थत्वात्तस्या दोषलेशो नास्ति । उच्यते,-यदयं न ऋक्षमित्यादिः स्तुत्यर्थवादः । तेन गोधूल्याः प्रशंसायां तात्पर्य नतु विधिः, अन्यथा निषिद्धेषु अमावास्याभद्राभरणीत्यादिष्वपि गोधूलिलग्नं भवितुं युक्तं स्यात् । सामान्यवैयापत्तेरिष्टापत्तिरपि वक्तुमशक्या । तस्मादभिहिततिथ्यादिष्वेव यावच्छक्याखिलदोषपरिहारपूर्वकं घटीलग्नं कार्य, तदभावे गोधूलिलग्नं कार्यम् । यदाह लल्लः-'लग्नं यदा नास्ति विशुद्धमन्यद्गोधूलिक साधु तदा वदंति । लग्ने विशुद्ध सति वीर्ययुक्ते गोधूलिकं नैव फलं विधत्ते ॥ शुभाशुभयुतं सर्व राशेदोषं त्वनिंदितम् । विवाहलग्नवच्छेषं गोधूली प्राह भागुरिः ॥' इति । किंच-'कुलिकं क्रांतिसाम्यं च मूतौं षष्ठाष्टमः शशी । पंच गोधूलिके त्याज्या अन्ये दोषाः शुभावहाः ॥' इति दैवज्ञमनोहरीयवाक्यस्यापि वैयापत्तेः । गोधूल्यधिकारिण आह नारदः'प्राच्यानां च कलिंगानां मुख्यं गोधूलिकं स्मृतम् । गांधर्वादिविवाहेषु वैश्योद्वाहे च योजयेत् ॥ चतुर्थमभिजिल्लग्नमुदयात्तु सप्तमम् । गोधूलिकं हि भवति संपत्पुत्रादिसौख्यदम् ॥' इति । दैवज्ञमनोहरे-'घटीलग्नं यदा नास्ति तदा गोधूलिकं शुभम् । शूद्रादीनां बुधाः प्राहुन द्विजानां कदाचन ॥ महादोषान्परित्यज्य प्रोक्तधिष्ण्यादिकेषु च । कारयेद्गोरजो यावत्तावल्लग्नं शुभावहम् ॥' इति । 'लग्नशुद्धिर्यदा नास्ति कन्या यौवनशालिनी । तदा वै सर्ववर्णानां लग्नं गोधूलिकं शुभम् ॥' इति । अत एव भूपालवल्लभे'विप्रेषु घटिकाऽलाभे दातव्यं गोरजो बुधैः । संकीर्णे गोरजः शस्तं परेषु द्वितयं शुभम् ॥' इति । तत्र गोधूलिसूक्ष्मकालस्तु केशवार्केणोक्तः-'अनोभयत्र घटिकादलमिष्टमाहुह्यं तदंबरमणेरपि चार्धबिंबात्' इति । केचित्तु'यावदिनांते दिशि पश्चिमायां पश्येत्ततीयं रविबिंबभागम् । तस्मात्परं नाडिकयुग्ममेके गोधूलिकालं मुनयो वदंति ॥' इति; तदेतयोः पक्षयोर्यथादेशाचारं व्यवस्था ॥ ९७ ॥
अथ शीतकालादिभेदेन गोधूलीभेदं जलधरमालाछंदसाहपिंडीभूते दिनकृति हेमंततौँ स्यादर्धास्ते तपसमये गोधूलिः। संपूर्णास्ते जलधरमालाकाले त्रेधा योज्या सकलशुभाख्ये कार्ये ।
पिंडीभूत इति ॥ हेमंताख्ये ऋतौ हेमंतशब्देन शीतकाल उपलक्ष्यते । मार्गशीर्षादिमासचतुष्टये इत्यर्थः । तत्र दिनकृति सूर्ये पिंडीभूते ओदनगोलकसदृशे संध्यायां नीहाराद्यावृतत्वेन निष्प्रभे इत्यर्थः । तस्मिन् समये गोधूलि
या। तथा तपसमये उष्णकाले चैत्रादिमासचतुष्टये सूर्येऽर्धास्ते अर्धबिंबस्य दृश्यत्वे अदृश्यत्वे च सति गोधूलिः । जलधरा मेघास्तेषां माला समूहस्तस्यो. त्पादके काले वर्षाकाले श्रावणादिमासचतुष्टये सूर्ये संपूर्णोऽस्तोऽदर्शनं यस्य