________________
गोधूलिके निषिद्धाः] विवाहप्रकरणम् ६ ।
३०७ तादृशे सति गोधूलिः। जलधरमालाशब्देन छंदोऽपि सूचितम् । न केवलमियं विवाहे एव किंतु सकलशुभाख्ये समस्ते शुभनामके कार्येऽपि ज्ञेया। यदाह वराहः-'गोधूलिं त्रिविधा वदंति मुनयो नारीविवाहादिके हेमंते शिशिरे प्रयाति मृदुतां पिंडीकृते भास्करे । ग्रीष्मेऽर्धास्तमिते वसंतसमये भानौ गते. ऽदृश्यतां सूर्ये चास्तमुपागते भगवति प्रावृदशरत्कालयोः ॥' इति ॥ ९८॥ अथ गोधूलिसमयेऽवश्यवयंदोषान् वैश्वदेवीछंदसाहअस्तं याते गुरुदिवसे सौरे सार्के
लग्नान्मृत्यौ रिपुभवने लग्ने वेंदौ । कन्यानाशस्तनुमदमृत्युस्थे भौमे
वोढुर्लाभे धनसहजे चंद्रे सौख्यम् ।। ९९ ॥ अस्तं याते इति ॥ गोधूलिरित्यनुवर्तते । गुरुदिवसे बृहस्पतिवारे सूर्येऽस्तं याते सूर्यास्तादनंतरं गोधूलिः शुभा स्यात् । नतु सूर्यास्तात्पूर्वमर्धघटिकं गोधूलिलग्नं कार्यम् , अर्धयामसद्भावात् । तथा सौरे शनिवारे सार्के सूर्यदर्शना सहिते गोधूलिः शुभा। नतु सूर्यास्तादनंतरं, कुलिकसद्भावात् । उपलक्षणत्वात् क्रांतिसाम्यमपि त्याज्यम् । तथा लग्नात्सायंकालीनलग्नान्मृत्यावष्टमे रिपुभवने षष्ठे वा लग्न एव वा चंद्रे सति कन्यानाशः स्यात् । तदुक्तं दैवज्ञमनोहरे'कुलिकं क्रांतिसाम्यं च मूतौँ षष्टाष्टमः शशी। पंच गोधूलिके त्याज्यअन्ये दोषाः शुभावहाः ॥' अत्र कुलिकशब्देन तत्कालसंभाव्यर्धयामाख्योऽपि वारदोषो गृह्यते, अन्येषां त्वसंभव एव । केचित्त्वाद्यपादे-'सार्क शनौ विरवि चित्रशिखंडिसूनौ तत्केवलं कुलिकयामदलोपलंभात्' इति केशवार्कोक्तं वाक्यं संमतिः कस्मान्न भवतीत्यूचुः । तच्चित्यम् । पूर्वापरग्रंथालोचनया तस्य पूर्वपक्षग्रंथोऽयम् , अन्यथा पंचम्यंतहेतूपादानवाक्यमनर्थक स्यात् । एतच्चाधुनैव निर्णेष्यते । लग्ने इति । लग्नस्थे मदनस्थे वा मृत्युस्थे वा भौमे सति वोढुर्वरस्य नाशो भवति । तदुक्तं ज्योतिःसंहितासारे'षष्टेऽष्टमे मूर्तिगते शशांके गोधूलिके मृत्युमुपैति कन्या। कुजेऽष्टमे मूर्तिगतेऽथवाऽस्ते वरस्य नाशं प्रवदंति गर्गाः ॥' इति । अन्योऽपि विशेषस्तत्रैव'षष्ठाष्टमे चंद्रजचंद्रजीवे क्षोणीसुते वा भृगुनंदने वा । मूतौ च चंद्रे नियमेन मृत्युर्गोधूलिकं स्यादिह वर्जनीयम् ॥' इति । 'धिष्ण्यं क्रूरयुतं त्याज्यं मूतौ षष्ठाष्टमः शशी। गोरजस्तत्प्रशंसंति संतः शनिदिनं विना ॥' इति । नन्विदं न वक्तव्यं, सप्तमसूर्यस्य 'अवीरामस्तेऽर्के' इति फलमभिहितम् ; 'अवीरा निष्पतिसुता' इति कोशः । एवं सति तादृशदोषदूषितस्य गोधूलिलग्नस्य चेदिहादरः तदा चंद्रशुद्धेरप्यादरः किमर्थम् ? किंच लग्नस्था अपि सूर्यभौमशनिराहुकेतवः पूज्याः स्युः । उक्तं च केशवाण-'गोधूलिकेऽपि विधुमष्टमषष्ठमूतौं यन्मोचयंति तदयं स्वरुचिप्रपंचः । पंचांगशुद्धिमयमेव
१ विरवि रविरहितं । २ चित्रशिखंडिसूनौ गुरुवासरे। 'वाचस्पतिश्चित्रशिखंडिजः'
इत्यमरः।