________________
मुहूर्तचिंतामणि: । [राशिषु सूर्यस्य स्पष्टगतिः
-
विवाहविष्ण्यैर्यस्मादिदं सततमस्तगते पतंगे ॥ नांशो न लग्नमिह दृष्टयुतं स्वभ नार्कारिसौरितमसामपि संगभंगः । किं चंद्रचारभयमेकमिहास्तु किंच नात्र प्रमाणवचनं किमपि श्रुतं नः ॥ सार्क शनौ चिरवि चित्रशिखंडि सूनौ तत्केवलं कुलिकयामदलोपलंभात् ॥' इति । उच्यते, — विशेष विधेः सामान्यशास्त्रबाधकता न्यायसिद्धा । तत्र सामान्यतः पंचघटिकात्मकस्य सायंकालीनलग्नस्य सप्तमसूर्याख्यो महान्दोषस्तत्रापि पुनर्गोधूलिकाले सूर्यार्धबिंबरूपे सूक्ष्मे न सप्तमसूर्य दोषो विशेषवचनात् । तत्राप्ययं विशेषो यद्गोधूल्यां यथाशक्ति दोषहीनं विधेयम् । घटिकालग्ने त्वखिलदोषहीनमत एव गोधूलिलग्ने न ऋक्षमित्यर्थवादोपपत्तिः । तस्याप्ययं ' षष्ठेऽष्टमे मूर्तिगते' ( पृ० ३०७ ) इत्यत्र वाक्ये विशेषवचनात् । ' नात्र प्रमाणवचनं किमपि श्रुतं नः' इति तु प्रौढिवादमात्रम् । एतादृशानां मूलभूतवाक्यानामुपलंभात् । 'सार्क शनौ' इत्यादि तु 'कुलिकं क्रांतिसाम्यं च' (पृ० ३०६) इति वाक्यात्कुलिकादित्यागे स्वयंहेत्वभिधानपरम् । नत्वत्र तात्पर्यम् । सप्तमसूर्यातिरिक्तसकलदोषनिराकरणप्रवृत्तत्वात्तस्य । किंच यदि गोधूल्यां कोsपि लग्नदोषो नास्तीत्यभिमतं स्यात्तदैकविंशतिमहादोषनिरूपणात्प्राक् नारदो गोधूलिलग्नमभिदध्यात् । न च व्यतीपातादिष्वपि गोधूलि - लग्नं स्यादिति वाच्यम् । सामान्यवाक्यैरपि निषेधसत्त्वात् । किंचैवं ब्रुवतस्ता वेष्टापत्तिरेव स्यादित्यास्तां प्रसक्तानुप्रसक्तम् । लाभ इति । चंद्रे लाभस्थे धने द्वितीयस्थे सहजे तृतीयस्थे वा सति स्त्रीपुरुषयोः सौख्यं स्यात् । तदुक्तं संहितासारे - 'यत्रैकादशगश्चंद्र द्वितीयो वा तृतीयगः । गोधूलिका तु विज्ञेयशेषा धूलिरिति स्मृता ॥' इति ॥ ९९ ॥
1
३०८
अथावसरप्राप्तां घटिकालमसिद्ध्यर्थं प्रक्रियां वृत्तपंचकेन वक्तुकामस्तावसूर्य स्पष्टगति मिंद्रवज्रयाह
मेषादिष्टशरा ५८ नगाक्षाः ५७
सप्तेषवः ५७ सप्तशरा ५७ गजाक्षाः ५८ । गोक्षाः ५९ खतर्काः ६० कुरसा : ६१ कुतर्काः ६१
कंगानि ६१ षष्टि ६० नवपंच ५९ भुक्तिः ॥ १०० ॥ मेषादीति ॥ स्पष्टार्थमिदं पद्यम् । मेषादिद्वादशसु राशिषु सूर्याक्रांतासु स्थूलकलात्मिका स्पष्टगतिरित्यर्थः । उक्तं च- - 'नागेषवो नगशरास्तुरगेषवोद्विबाणा भुजंगविषयाः क्रियतो नवाक्षाः । व्योमर्तवः शशिरसाः कुरसाः कुतर्काः षष्टिर्नवेषव इनस्य गतेः कलाः स्युः ॥' इति । इयं स्थूला गतिर्वासनासिद्धेति नार्षवचनापेक्षा । वासना च गणितस्पष्टा ॥ १०० ॥
अथ सूर्यस्य तात्कालिकीकरणमनुष्टुभाह— संक्रांतियातघस्राद्यैर्गतिर्निघ्नी खषद् ६० हृता ।
लब्धेनांशादिना योज्यं यातक्षं स्पष्टभास्करः ॥ १०१ ॥