________________
स्पष्टार्कादीष्टघटिकानयनं ] विवाहप्रकरणम् ६ ।
संक्रांतीति ॥ संक्रांतयो मेषाद्याः पंचांगदृष्टाः यद्दिने यस्यां घट्यां च स्युस्तत आरभ्य स्वाभीष्टस्थूलकालपर्यंतं यावदिनानि यावंत्यो घटिकाश्च भवंति तैर्मेषादीष्टराशिस्थे सवितरि सति तत्सूर्यस्थूलस्पष्टगतिर्गुण्या खषइभिः षष्ट्या ६० भक्ता यल्लब्धं तेंऽशा अवशिष्टं कलादि येऽशावयवास्ते आदिशब्दवाच्याः; तेन यातक्षं ऋक्षं राशिः सूर्यभुक्तमेषादिराशियुक्तः सन् तात्कालिकस्थूलस्पष्टभास्करः स्यात् ॥ १० ॥ अथेष्टकालिकलग्नानयनमनुष्टुभाह
तनोरिष्टांशकात्पूर्वं नवांशा दशसंगुणाः ।
रामाप्ता लब्धमंशाचं तनोर्वर्गादिसाधने ॥ १०२ ॥ तनोरिति ॥ ग्रहबलसहितस्य लग्नस्य यो विहितो नवांशो दोषरहितो विचारितः सः ‘क्रियमृगास्यतौलिकेंदुभतो नवांश विधिरुच्यते बुधैः' इति गणनया यावत्संख्य आगच्छेत् तत् पूर्वनवांशा यावंतः स्युस्ते दशभिः संगुणाः संगुण्याःरामैस्विभिराप्ता यल्लब्धमंशाद्यमंशकलाविकलात्मकं तत्तनोरिष्टकालिक भुक्तं स्यात्तेन कृत्वा प्रागुक्त-'कुजशुक्रसौम्य-' (६।३७) इत्यादिप्रकारेण षड्वर्ग: साधन स्यात् । अत्रोपपत्तिः-यदि नवभिनवमांशैस्त्रिंशदंशा लभ्यते तदेष्टनवांशेन कियंत इति अत्र 'प्रमाणमिच्छा च' इत्यादिना इष्टनवांशानां त्रिंशद्गुणको भाजको नव संपन्नः, तत्र द्वयोरपि त्रिभिरपवर्ते दश गुणकः त्रयो भाजकः इत्युपपन्नं फलमिष्टांशाः स्युः। उक्तं च महेश्वरेण-'इष्टा. त्पूर्वनवांशका दशहता रामैर्हताः स्युर्लवाः' इति ॥ १०२॥ __ अथैवं साधिताभ्यां स्पष्टार्कलग्नाभ्यामिष्टघटिकानयनं शालिन्याहअर्काल्लग्नात्सायनाभोग्यभुक्तैर्भागैनिम्नास्वोदयात्खाग्निभक्तात् । भोग्यं भुक्तं चांतरालोदयाढ्यं षष्ट्या भक्तं स्वेष्टनाड्यो भवेयुः॥
अर्कादिति ॥ सायनादयनांशसहितात्सूर्यादाशिभोग्यांशैः सायनांशसू. र्याक्रांतराशेः स्वदेशीय उदयो मेषादिराशीनां पलात्मकं प्रमाणं गुण्यं खाग्निभिस्त्रिंशता भक्तं लब्धानि पलानि स्युः; एवं लग्नात्सायनांशाद्भुक्तांशैराक्रांतस्वदेशीयराश्युदयो गुण्यः खाग्निभक्तो लब्धानि भुक्तपलानि; एवं जातानां भोग्यभुक्तपलानामैक्यं कार्य तत्सायनांशलग्नार्कयोरंतरालोदयपलैर्युक्तं कार्य षष्ट्या भक्तं सूर्योदयादिष्टघटिका भवेयुः। अत्रोदयज्ञानं भास्कराचार्येणोक्तम्'लंकोदया नागतुरंगदस्रा २७८ गोंऽकाश्विनो २९९ रामरदा ३२३ विनाड्यः। क्रमोत्क्रमस्थाश्चरखंडकैः स्वैः क्रमोत्क्रमस्थैश्च विहीनयुक्ताः ॥ मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च षडुत्क्रमस्थाः ॥' इति । स्वैः स्वदेशीयैः । अत्र चरखंडानयनमपि तेनोक्तम्-'अयनलवदिनैः प्राङ्मेषसंक्रांतिकालाद्भवति दिवसमध्ये या प्रभाऽक्षप्रभा सा। दशगजदशनिघ्नी साक्षभांऽत्या त्रिभक्ता
१ इंदुभतः कर्कात् ।