________________
मुहूर्तचिंतामणिः। [घटिकानयने विशेषः प्रतिगृहचरखंडानि' इति; 'अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयात्यः समयो विलग्नात्' इति च ॥ १०३ ॥ ___ अथ घटिकानयने विशेष शालिन्याहचेल्लमाकी सायनावेकराशौ तद्विश्लेषनोदयः खाग्निभक्तः । खेष्टः कालो लग्नमूनं यदाांद्रात्रेः शेषोऽकोत्सषड्भान्निशायाम्॥
चेदिति ॥ लग्नाकौं सायनौ अयनांशसहितौ संतौ यद्येकराशौ स्यातां तदा तयोर्लग्नार्कयोविश्लेषोंतरांशास्तैर्गुणितः स्वदेशीय उदयः कार्यः । खाग्निभित्रिंशता भाज्यो लब्धमिष्टकालः सूर्योदयात्स्यात् । तत्र यदार्कात्सायनसूर्यादेकराशिस्थितं लग्नमूनं स्यात्तदा यः 'चेल्लग्नाकौं सायनौ' इत्युक्तदिशा खेष्टकाल आगतः सः सूयादयात्प्राक् रात्रिशेषो भवेत् । अयमर्थः-आनीत , इष्टकालः षष्ट्या पात्यः प्राग्दिनीयसूर्योदयानंतरमेतावानिष्टकालः अथवा रात्रिमानात्पात्यः प्राग्दिनीयसूर्यास्तादनंतरमेतावानिष्टकालः । एवमिष्टकाले सामान्यतो निर्णीते रात्रौ विशेष उच्यते । निशायां रात्रावळत्सषड्भाद्राशिषड्युक्तात्मागुक्तप्रकारेण 'अर्काल्लग्नात्' (६।१०३) इत्यादिनेष्टकालः साध्यः । स सूर्यास्तानंतरं भवेत् । यदाह भास्करः-'यदैकभे लग्नरवी तदा तद्भागांतरनोदयखाग्निभक्तम् । स्यादिष्टकालो यदि लग्नमूनं शोध्यो धुरात्रादथवा रजन्याः ॥ रात्रीष्टकाले तु सषड्भसूर्याल्लग्नं ततोऽप्युक्तवदिष्टकालः ॥' इति । अत्रांशप्रवृत्तेः पंच पलानि पात्यंते विहितनवांशप्रवेशसूचनार्थमिति दैवज्ञसंप्रदायः। एवमानीत इष्टकाले दंपत्योरन्योन्यवीक्षणं कार्यमित्याह कश्यपः'अन्योन्यवीक्षणं सम्यक्सुलग्ने कारयेत्सदा' इति । नारदोऽपि-'एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षणम्' इति । एतेन परस्परावलोकनं सुलग्ने कार्यमितरत्तु समयांतरेऽपि विधेयमित्युक्तं भवति । तुल्यन्यायत्वादुपनयनादावपि साधितेष्टकाले संस्कार्याचार्ययोरप्यन्योन्यवीक्षणं कारणीयम् । 'शास्त्रोक्तमार्गेण सुलग्नकालं स्फुटं समानीय जलादियंत्रैः। संलभ्य तं मंगलसूक्ष्मकालं संलोकयेत्तत्र मिथोर्ध्वदृष्टिः ॥' इति सामान्यतो वसिष्ठोऽभिहितवान् । कश्यपोऽपि तथैवाह-'अन्योन्यवीक्षणं सम्यक् सुलग्ने कारयेत्सदा' इति । अनेन सुलग्नकाले अन्योन्यवीक्षणमेव मुख्यम् । पाणिग्रहणादिगायत्र्युपदेशादिकं तु तदुत्तरकालकर्तव्यतया गौणमिति प्रतिभाति । स चेष्टकालः कथं साधनीय इत्यत आह कश्यपः-'एवं गुणगणान् वीक्ष्य लग्नं निश्चित्य यत्नतः। सिद्धांतोक्तेन मार्गेण लग्नकालं प्रसाधयेत् ॥ जलयंत्रेण तल्लनं दद्यात्तेनार्चितो द्विजः । मुखं वृत्तं द्वादशभिरंगुलैश्च षडुन्नतम् ॥ घटार्धवत्ताम्रपात्रं कुर्यात्तद्दशभिः पलैः। षष्टिर्भजेदहोरात्रे घटिकापात्रमुत्तमम् ॥ माषत्रयव्यंशयुतस्वर्णवृत्तशलाकया। चतुर्भिरंगुलैरायतया विद्धं स्फुटं न्यसेत् । रवेरोदयं दृष्ट्वा वाप्यर्धास्तमयं तथा । पूवाक्तलक्षणं यंत्रं मंत्रेणानेन निक्षिपेत् ॥' १ 'मिथोऽर्थदृष्ट्या' इति पाठो लिखितपुस्तकानुगुणः ।