________________
सूर्यस्य तात्कालिकीकरणं ] विवाहप्रकरणम् ६ ।
३११
निक्षिपेज्जलपूर्णपात्र इत्यर्थः । यदाह नारदः - 'ताम्रपात्रे जलैः पूर्णे गंधपुष्पैरलंकृते । तंडुलस्थे रत्नयुते शुचिभूमावहर्पतेः ॥ मंडलार्धोदयं वीक्ष्य जलपात्रे विनिक्षिपेत् ।' इति । मंत्रमप्याह स एव - 'यंत्राणां मुख्ययंत्रं त्वमिति धात्रा पुरा कृतम् । दंपत्योरायुरारोग्यसुपुत्रधनहेतवे ॥ जलयंत्रक मे तस्मादिष्टसिद्धिप्रदो भव ।' इति । ताम्रघटिकाद्यभावे द्वादशांगुलशंकुना कालः साध्यः । तदुक्तं कश्यपेन - ' अथवा साधयेत्कालं द्वादशांगुलशंकुना' इति । शंकुलक्षणमाह नारदः - 'न्यग्रोधखदिराश्वत्थरक्तचंदनवृक्षजम् । श्रीखंडागरुदंतोत्थमृजुशंकुम कल्मषम् । द्वादशांगुलमुत्सेधं परिणाहं षडंगुलम् | एवंलक्षणसंयुक्तं कल्पयेत्कालसाधने ॥' इति । शंकुना घटीज्ञानं तु करणकुतूहले भास्करेणाभिहितम् । यथा- - 'चरपलयुतहीना नाडिका : पंचचंद्रा १५ दलमथ निशार्धं याम्यगोले विलोमम् । दलगतघटीनामंतरं तन्नतं स्यान्नतरहितदिनार्धं चोन्नतं जायतेऽत्र ॥ दिनदलं विशरं खहरो भवेन्नतकृतिः पृथगनशराहता । खखनवाढ्यपृथक्स्थितया हृता खहरतः पतितोऽभिहितो हरः ॥ अथ नतं यदि पंचदशाधिकं दिनदलात्पतितं खहरस्तदा । प्रथमखंडहृतं दलितं चरं स्वगुणितं स्वषडंशविवर्जितम् ॥ दशयुतं पलकर्णहतं हतिईरहता श्रवणोंगुलपूर्वकः । रवियुतोनित कर्णहतेः पदं द्युतिरिनद्युतिवर्गयुतेः श्रुतिः ॥ श्रुतिविभक्तहृतिस्तु हरो भवेत्स पतितः खहरादवशेषकम् । पृथगिर्द खखनंदहतं हरात्खविषयैरवशेषविवर्जितैः ॥ फलपदं हि नतं यदि शेषकं दिगधिकं हर एव तदुन्नतम् ॥' इति ॥ १०४ ॥
अथ विवाहादिशुभकार्येष्वावश्यकान्वर्ज्य दोषानविस्मरणार्थं शार्दूलविक्रीडितत्रयेणाह—
उत्पातान्सहपातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा
चंद्रेज्योशनसामथास्तमयनं तिथ्याः क्षयद्ध तथा । गंडांतं च सविष्टिसंक्रमदिनं तन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान्पापस्य वर्गांस्तथा ॥ १०५ ॥ सेंदुक्रूरख गोदयांशमुदयास्ताशुद्धि चंडायुधा
न्खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् । बाणोपग्रहपापकर्तरि तथा तिथ्यृक्षवारोत्थितं
दुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ।। १०६॥ क्रूराक्रांतविमुक्तभं ग्रहणभं यत्क्रूरगंतव्यभं
धोत्पातहतं च केतुहतभं संध्योदितं भं तथा ।