________________
३१२
मुहूर्तचिंतामणिः । [शुमे आवश्यकवयंदोषाः तद्वच्च ग्रहभिनयुद्धगतभं सर्वानिमान्संत्यजे
दुद्वाहे शुभकर्मसु ग्रहकृताँल्लग्नस्य दोषानपि ॥ १०७॥ उत्पातानिति ॥ सेंदुक्रेति ॥ क्रूराक्रांतेति ॥ उत्पातादीन्दोषानुद्वाहे विवाहे यज्ञोपवीतादिशुभकर्मसु च संत्यजेदिति तृतीयश्लोकगतेनान्वयः उद्वाहग्रहणं गोबलीवर्दन्यायेन मुख्यत्वसूचनार्थम् । उत्पातान् त्रिविधान दिव्यांतरिक्षभौमान् लक्षणया तत्संबंधिसप्तवज्र्यदिवसांस्त्यजेत् । यदाह गुरुः'दिग्दाहे वा महादारुपतने चांबुवर्षणे । उल्कापाते महावाते महाशनिनिपातने ॥ अनभ्राशनिपाते च भूकंपपरिवेषयोः । ग्रामोत्पाते शिवाशब्दे दुनिमित्ते न शोभनम् ॥ केतवो यत्र दृश्यंते सधूमा वा पृथग्विधाः । चंद्रसूर्यग्रहे चैव वर्जयेद्दिनसप्तकम् ॥' इति । पातः महापातः, क्रांतिसाम्यमिति यावत् । तद्णितप्रसिद्धम् । दग्धतिथयः 'चापांत्यगे गोघटगे' (६।६४ ) इत्यादिनोक्ताः । एतैः सह संत्यजेदिति संबंधः । तथा दुष्टान् योगान् व्यतीपातवैधतिपरिघार्धादीन् । अथ चंद्रेज्योशनसां चंद्रगुरुशुक्राणां अस्तमयनमस्तं च तिथ्योः क्षयर्थी तिथिवृद्धिं तिथिक्षयं च पुनर्गडांतं नक्षत्रतिथिलग्नैः त्रिविधं विष्टिर्भद्रा संक्रमदिनम् 'देवड्यंक-' (६७८) इत्यादिना संक्रमकालादुभयतो वा घटिकाः अयनेषु विषुवेषु च पूर्वापरं त्रिदिनमिति विशेषो ध्येयः । ताभ्यां सहितमिति पूर्वेण संबंधः । तन्वंशपास्तं तनुर्लग्नं अंशो लग्नगतविहितनवांशः तौ पात इति तन्वंशपौ तयोरस्तं लग्नाधीशलग्ननवांशाधीशास्तं चेत्यर्थः। तथा तन्वंशेशविधून लग्नेशनवांशेशचन्द्रान् अष्टरिपुगान् अष्टषष्ठस्थानगान् तथा पापस्येत्येकत्वमविवक्षितम् । पापग्रहाणां वर्गान् सेन्दुक्रूरखगोदयांशं इन्दुश्च क्रूरखगश्चेदुक्रूरखगों उदयो लग्नं अंशो नवांशश्च उदयांशमिति समाहारद्वंद्वैकवचनम् । इन्दुरखगाभ्यां सहितमुदयांशं इंदुसहितं लग्नं लग्नांशं च क्रूरग्रहेण सहितं लग्नं लग्नांशं चेत्यर्थः। उदयास्ताशुद्धिचंडायुधान् उदयाशुद्धिरस्ताशुद्धिश्च इष्टोदयांशे निजपत्यदृष्टे वरस्य मृत्युस्तदसंयुते वा। अस्तांशकेऽप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्या ॥' इति वसिष्ठाद्युक्तं । इतरथा ज्ञेयमशुभमिति ग्रंथक प्युक्तं प्राक् । चंडायुधं 'हर्षणवैधतिसाध्य-' (६।५८) इत्यादिनोक्तं, खार्जूरम् 'व्याघातगंड-' (६।६०) इत्यादिनोक्तं, दशयोगः 'सूर्यक्षचंद्रर॑युतेः' (६।६८ ) इत्यादिनोक्तः, योगो ग्रहयुतिश्च तत् सहितं जामित्रलत्ताव्यधं समाहारद्वंद्वैकवचनं । जामित्रं द्विविधं-लग्नजामित्रं चंद्रजामित्रं च; 'लग्नाञ्चंद्रात्' (६।६५) इत्यादिनोक्तं, लत्ता 'ज्ञराहुपूर्णेदुसिताः' (६।५७) इत्युक्ता। व्यधं वेधं सप्तशलाकोक्तं पंचशलाकोक्तं च । बाणाः पंचकं । उपग्रहः प्रसिद्धः 'शराष्टदिक्शक्र-' (६।६१) इत्यादिः । पापकर्तरी क्रूरग्रहकर्तरी समाहारद्वंद्वैकवचनम् । तिथ्यृक्षवारोत्थितं दुष्टं योगं तिथिनक्षत्रवारैः कृत्वोत्थितमुत्पन्नं दुष्टयोगं तथा तिथिनक्षत्रोद्भवम् । 'वैश्वमादिमे' (१।११) इत्यादि तिथिवारोद्भवम् । 'सूर्येशपंच-' ( ११८ ) इत्यादि नक्षत्रवारोद्भवम् । 'याम्यं त्वाष्ट्रम्' ( ११५ ) इत्यादि तिथिनक्षत्रवारोद्भवम् । 'हस्ताकं पंचमी-' (१।२०) इत्यादि अनेकं दुष्टयोगम् । अथार्धयाम
१ मूले तु 'शशांकसूर्यःयुतेः' इति (पृ०२८७) पाठो लभ्यते, तदनुगुणमेव तत्र टीकाकृदयाख्यानमपि दरीदृश्यते; परमत्र 'सूर्यर्क्षचंद्रक्ष्युतेः' इति पठने हेतुस्तु चिन्त्य एव ।