________________
तैलादिलापनसंख्यानियमः] विवाहप्रकरणम् ६ ।
३१३ कुलिकाद्यान् वारदोषानपि स्पष्टार्थ आदिशब्देन दुर्मुहूर्तादिकान् क्रूराक्रांतविमुक्तभं क्रूराक्रांत क्रूरविमुक्तं च भं ग्रहणभं यस्मिन् भे सूर्यचंद्रोपरागो जातस्तनं यत् क्रूरगंतव्यभं क्रूरेण जिगमिषितं यचं नक्षत्रं त्रेधोत्पातहतं च त्रिविधोत्पातैर्दिव्यभौमांतरिक्षरुत्पातहतं तन्मासषकं त्याज्यमेव केतुहतभं केतुना हतं भं च । ननु केतोर्दिव्योत्पातत्वाधोत्पातहतमित्यनेनैव निषिद्धमिति किं पुनर्विशेषनिषेधेन? उच्यते,-अशुभफलदकेतोराधूमनैः स्पशैंः स्थानैश्च नक्षत्रांतरेऽपि दोषवत्तास्ति । यदाह वराहः-'यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् । उदयास्तमनैर्वणः स्पशैराधूमनैः स्थानः ॥' इति । तथा संध्योदितं भं । अत्र संध्याशब्देन सायंसंध्या गृह्यते । तत्रोदितं तत्काले यन्नक्षत्रं प्राक् क्षितिजे उदितं तत्संध्योदितं सूर्याच्चतुर्दशं नक्षत्रमित्यर्थः । [नतु प्रातःसंध्यायाम् । तत्र हि सूर्येणाक्रांतभुक्ताग्र्यान्यतमसत्त्वात् । ] यदुक्तं केशवार्केण-तरणितारकोऽपि चतुर्दशं तदखिलेऽपि खिलं शुभकर्मणि' इति । तारकशब्दः क्लीबेऽपि, 'कनीनिकायां नक्षत्रे तारकं तारकेति च' इति विश्वः । ननूपग्रहत्वादेव निषेधे सिद्ध पुनर्दोषाभिधानं किमर्थम् ? उच्यते,-उपग्रहक्षदोषस्य सत्यावश्यकत्वे कुरुबाहीकविषयत्वाच्चतुर्दशस्य तु भस्य दोषाधिक्यसूचनादावश्यकेऽपि सर्वदेशविषयत्वेन निषेधो यथा स्यादिति । तद्वच्च ग्रहभिन्नयुद्धगतभं ग्रहेण भिन्नं ग्रहयुद्धगतं च भ षण्मासं निषिद्धम् । तथा ग्रहकृतान् लग्नस्य दोषान् 'व्यये शनिः खेऽवनिजः' (६।८४) इत्यादिकान् लग्नसंबंधिदोषान् संत्यजेत् ।भत्र मूलवाक्यानि सर्वाण्यस्मिन्नेव प्रकरणेऽभिहितानि, कानिचिदाद्यप्रकरणे इति पुनरत्र नोक्तानीति शिवम् ॥ १०५-७ ॥ ' कैश्चित्तैलादिलापने संख्यानियम उक्तस्तमाहमेषादिराशिजवधूवरयोर्बटोश्व
तैलादिलापनविधौ कथितात्र संख्या । शैलादिशःशेरदिगक्षे गाँद्रिोणा
बोणाक्षबाणेगिरयो विबुधैस्तु कैश्चित् ॥ १०८॥ मेषादिराशिजेति ॥ स्पष्टम् । देशविशेष औदीच्यादौ प्रसिद्धम् ॥
अथ विवाहप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
पष्ठं विवाहप्रकरणं समाप्तम् ॥ ६॥ स्पष्टार्थम् ॥
१ [ ] एतचिह्नांतर्गतो ग्रंथो लिखितपुस्तकेषु नास्ति । २ अयं सटीकः श्लोको लिखितपुस्तकेष्वनुपलंभात् अंकगत्यवसानाच्च शङ्कास्पदो भवति ।
२७ मु० चि०