________________
मुहूर्तचिंतामणिः। [वधूप्रवेशे मुहूर्तः ज्योतिर्विद्वरनीलकण्ठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयविधौ पीयूषधाराभिधे व्याख्याने करपीडनप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ __इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां
विवाहप्रकरणं समाप्तम् ॥ ६ ॥
अथ वधूप्रवेशप्रकरणम् ७।
गणनायकमाराध्य विघ्नसंघनिवारकम् ।
वधूवेशप्रकरणं व्याख्याति विदुषां मुदे ॥ १ ॥ अथ वधूप्रवेशप्रकरणं व्याख्यायते । तत्र वध्वाः नूतनपरिणीतायाः कन्यायाः प्रथमतः करिष्यमाणो भर्तृगृहप्रवेशो 'वधूप्रवेश'शब्दवाच्यः इति अधुनावसरप्राप्तत्वात्तन्मुहूर्तमुपेंद्रवज्रयाह
समाद्रिपंचांकदिने विवाहाद्वधूप्रवेशोऽष्टिदिनांतराले।
शुभः परस्ताद्विषमाब्दमासदिनेऽक्षवर्षात्परतो यथेष्टम् ॥१॥ . समाद्रीति ॥ विवाहाद्विवाहदिवसादारभ्याष्टिदिनानि षोडशदिनानि तेषामंतराले समाद्रिपंचांकदिने समदिनानि द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशचतुईशषोडशसंख्यानि विषममध्ये सप्तमपंचमनवमदिनानि तेषु वधूप्रवेशः वध्वा नूतनपरिणीतायाः कन्याया भर्तृगृहप्रवेशः शुभः शुभफलप्रदः । यदाह नारदः-'आरभ्योद्वाहदिवसाषष्ठे वाप्यष्टमे दिने । वधूप्रवेशः संपत्त्यै दशमेऽथ समे दिने॥' षष्ठादीनां समत्वादेव ग्रहणात् पुनस्तदुक्तिरतिप्राशस्त्यसूचनार्थम् । ज्योतिर्निबंधे तु विशेषः-'वधूप्रवेशनं कार्य पंचमे सप्तमे दिने । नवमे च शुभे वारे सुलग्ने शशिनो बले ॥' इति । परस्तात्प्रतिबंधवशात् षोडशदिनाभ्यंतरे वधूप्रवेशो न जातस्तदा तदनंतरं विषमाब्दमासदिने विषमवर्षे प्रथमतृतीयपंचमवर्षे विषममासे विवाहमासात्प्रथमतृतीयपंचमसप्तमनवमैकादशमासेषु विषमदिनानि सप्तदशादीनि तेषु वधूप्रवेशः शुभः । तत्रापि यदि प्रतिबंधवशात्कालातिक्रमः पंचवर्षात्मको जातस्तदा पंचवर्षादनंतरं यथेष्टं वर्षादिनियमो नास्ति किंतु दोषरहिते काले वधूप्रवेशो विधेयः । तदुक्तं च संग्रहे-'विवाहमारभ्य वधूप्रवेशो युग्मे दिने षोडशवासरांतः । ऊर्ध्वं ततोऽब्देऽयुजि पंचमांतं पुनः परस्तानियमो न चास्ति ॥' अत्राब्दे अयुजीति पद. च्छेदो द्रष्टव्यः। यदुक्तं जयतुंगे विवाहपटले-'वधूप्रवेशःप्रथमेऽत्र वर्षे तथा तृतीयेऽप्यथ पंचमे वा । सूर्येदुदेवेज्यबलेन कुर्यात्पुंसो मुनिौतम माह सत्यम् ॥' इति । समवर्षे दोषस्मरणाच्च । यदाह धर्मशास्त्रे नारदः-'समे वर्षे समे मासे यदि नारी गृहं व्रजेत् । आयुष्यं हरते भर्तुः सा नारी मरणं
१ अत्र विधिवन्मुदे' इति लिखितपुस्तकेषु पाठः ।