________________
नवोढायाः पितृगृहादिवासफलं] वधूप्रवेशप्रकरणम् ७ । व्रजेत् ॥' इति । अयुग्मवत्सरनिषेधः पंचवर्षात्प्राक् ज्ञेयों न पश्चात्तद्वाक्यस्य प्रागभिधानात् ॥१॥ अथ वधूप्रवेशे नक्षत्रादिशुद्धिमनुष्टुभाह
ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले ।
वधूप्रवेशः सन्नेष्टो रिक्तारार्के बुधे परैः ॥२॥ ध्रुवेति ॥ ध्रुवाणि रोहिण्युत्तरात्रयं च, क्षिप्राणि अश्विनीपुष्यहस्ताः, मृदूनि चित्रानुराधारेवतीमृगाः, श्रोत्रं श्रवणः, वसुर्धनिष्ठा, मूलं प्रसिद्धं, अनिलः स्वाती; एषु भेषु वधूप्रवेशः सन् शुभफलदः। रिक्ताः प्रसिद्धाः १९।१४ तिथयः, तथा आराौं भौमरविवारौ; तत्र नेष्टो न शुभः । रिक्तारा: इति समाहारद्वंद्वः । अर्थादन्यासु तिथिषु अर्काराभ्यामन्यवारेषु च वधूप्रवेशः प्रशस्त इत्यर्थः। उक्तं च व्यवहारतत्त्वे-'पौष्णात्कभाच श्रवणाच युग्मे हस्तत्रये मूलमघोत्तरासु। पुष्ये च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः॥' इति । कभरोहिणी । बुधे परैरिति । अन्यैः शिष्टैर्बुधवारे वधूप्रवेशो नेष्यते । कस्मिंश्चिद्देशे शिष्टाचारो यदुधवारे वधूप्रवेशो न विधीयते । केचिदत्र हेतुमपि वर्णयंति यहुधो नपुंसक इति । तच्चिंत्यम् । शनेरपि नपुंसकत्वात्तस्यापि निषेधो वाच्यः स्यात् । एवं निर्णीतो वधूप्रवेशो रात्रावेव कार्यों न दिवेत्युक्तं स्मृत्यर्थतत्त्वे-'वधूप्रवेशो न दिवा प्रशस्तो राजप्रवेशो न निशि प्रशस्तः । दिवा च रात्रौ च गृहप्रवेशः सत्कीर्तिदः स्यात्रिविधः प्रवेशः ॥' इति ॥ २॥ __ अथ विवाहानंतरं प्रथमेषु केषुचिन्मासेषु वध्वाः पित्रादिगृहनिवासे फलमिंद्रवंशाछंदसाहज्येष्ठे पतिज्येष्ठमथाधिके पतिं हंत्यादिमे भर्तृगृहे वधूः शुचौ । श्वश्रू सहस्से श्वशुरं क्षये तनुं तातं मधौ तातगृहे विवाहतः॥३॥
ज्येष्ठे इति ॥ विवाहतो विवाहादनंतरं भर्तृगृहे स्थिता यदि आदिमे प्रथमे ज्येष्टे मासि तिष्टंती वधूः पतिज्येष्ठं भर्तृज्येष्ठभ्रातरं हंति । एवमादिमेऽधिके मासि स्थिता वधूः पतिं भर्तारं हंति । आदिमे शुचावाषाढे श्वश्रं भर्तुजननी हंति । आदिमे पौषे श्वशुरं भर्तुः पितरं हंति । आदिमे क्षये क्षयमासे भर्तृगृहे तिष्टंती तनुं निजशरीरं हंति, म्रियत इत्यर्थः। तथादिमे मधौ चैत्रे तातगृहे पितृगृहे तिष्ठति तातं पितरं हंतीत्यर्थः । यदि कन्यायाः पित्राद्यभावस्तदा तत्तन्मासे तत्तद्नेहावस्थितौ सत्यामपि न कोऽपि दोष इत्यर्थः । उक्तं च मुहूर्तमार्तडे-'उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तुगृहे कन्यका हन्यात्तजननी क्षये निजतनुं ज्येष्ठे पतिज्येष्ठकम् । पौषे च श्वशुरं पतिं च मलिने चैत्रे स्वपित्रालये तिष्ठंती पितरं निहंति न भयं तेषामभावे भवेत् ॥' इति । मलिनेऽधिकमासे । क्षयमासाधिकमासयोर्लक्षणं संक्रांतिप्रकरणेऽभिहितम् । तस्मान्नववध्वा विवाहानंतरं ज्येष्ठाषाढपौषाधिकमासक्षयमासेषु भर्तृगृहे न स्थातव्यं किंतु पितृगृहे एव स्थातव्यम् । एवं चैत्रे मासि पितृगृहे न स्थातव्यं किंतु भर्तृगृहे एव स्थात