SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१६ मुहूर्तचिंतामणिः । [द्विरागमने मुहूर्तः व्यमिति फलितोऽर्थः। तदुक्तं ज्योतिर्निबंधे - 'विवाहात्प्रथमे पौषे आषाढे चाधिमासके। न सा भर्तृगृहे तिष्ठेच्चैत्रे पितृगृहे तथा ॥' आषाढो ज्येष्ठोपलक्षकः । अधिमासः क्षयमासोपलक्षकः । अत्र प्रमाणं (पृ. १३८) प्रागुक्तमिति ॥ ३ ॥ अथोपसंहरति इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ वधूप्रवेशप्रकरणं समाप्तम् ॥ ७ ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने हि वधूप्रवेशसमयाध्यायः समाप्तिं गतः ॥ १ ॥ इति श्रीमद्देवशमुकुटालंकारनीलकंठज्योतिर्विस्पुत्रगोविंद विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां वधूप्रवेशप्रकरणं समाप्तम् ॥ ७ ॥ अथ द्विरागमनप्रकरणम् ८ । गणनायकमाराध्य नीलकंठं गुरुं तथा । द्विरागमप्रकरणं व्याख्याति विदुषां मुदे ॥ १ ॥ अथ द्विरागमप्रकरणं व्याख्यायते । तत्र पूर्वं नववधूप्रवेशे जाते तदनंतरं परावृत्त्य पितृगृहं प्राप्ताया वध्वा यथेष्टवर्षाणि स्थितायाः पुनर्भर्तृगृहप्रवेशो द्विरागमशब्दवाच्यः; अयमाचारः प्राच्योदीच्यपाश्चात्यानामेवेति । अधुनावसरप्राप्तत्वात्तन्मुहूर्त पंचचामरछंदसाह— चरेदथौजहायने घटालिमेषगे खौ वीज्यशुद्धियोगतः शुभग्रहस्य वासरे । नृयुग्ममीनकन्यकातुलावृषे विलग्नके द्विरागमं लघुघुवे चरेऽस्रपे मृदूनि ॥ १ ॥ चरेदिति ॥ अथ वधूप्रवेशकथनानंतरं पुनर्वधूप्रवेशः द्विरागमनं वक्ष्यमानक्षत्रादिषु चरेत्कुर्यात् । कदा ? ओजहायने विषमवर्षे प्रथमे तृतीये पंचमे वा वर्षे सति, तथा घटालिमेषगे कुंभवृश्चिकमेषस्थिते रवौ, तथा वरस्य रवीज्यशुद्धिः रवेः सूर्यस्य इज्यस्य गुरोः शुद्धियोगतः, शुभग्रहस्य सोमबुधगुरुशुक्राणामन्यतमस्य वासरे सति, मिथुनमीनकन्यातुला वृषाणामन्यतमे लग्ने शुभग्रहावलोकिते शुभयुक्ते वा सति; लघूनि अश्विनीपुष्यहस्ताः, ध्रुवाणि प्रसिद्धानि, चराणि श्रवणादित्रयपुनर्वसुस्वात्यः, अस्रपो राक्षसस्तद्धं मूलं; मृदूनि प्रसिद्धानि एषु भेषु च द्विरागमः प्रशस्त इत्यर्थः । यदाह ऋक्षोच्चयः - ' तिष्यादि १ प्रथमे वर्षे पौषाषाढेऽधिमासके इति पाठः ।
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy