________________
तत्र संमुखशुक्रदोषः ] द्विरागमनप्रकरणम् ८
३१७
त्यसमीरणादितिव सुत्रीण्युत्तराण्यश्विनी रोहिण्यः शुभदाश्च वर्षमसमं मेषालिकुंभे रविः । कन्यामन्मथमीनभे नववधूयानं वृषे तौलिके देवाचार्यसितेंदुसौम्यदिवसे शुद्धे गुरौ भास्करे ॥' इति । ग्रंथकर्त्रात्र कानिचिह्नान्यधिकानि उक्तानि तानि राजमार्तण्डे नोक्तानि - ' नीहारांशुधनोत्तरादिति गुरुब्रह्मानुराधाश्विनीमूलाहस्करवारुणानिलहरित्वाष्ट्रेषु शस्त्रे तिथौ । कुंभाजालिगते रवौ शुभकरे प्राप्तोदये भार्गवे सूर्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे ॥ हित्वा दिक्प्रतिलोमगौ बुधसितौ लालाटिकं दिक्पतिं चानीता गुणशालिनी नववधूर्नित्योत्सवैर्मोदते ॥' लालाटिकान्योगान् यात्रायां (१०३६६) वक्ष्यति । शुक्रास्तनिषेधस्तु सामान्यतो 'वाप्याराम - ( १४६ ) इत्यादिनोक्त एवेति न पुनरुक्तः । यद्यपि प्राक् सामान्येन कालशुद्धिरुक्ता तथाप्यावश्यकत्वे - 'चैत्रे पौषे हरिस्वमे गुरोरस्ते मलिम्लुचे । नवोढागमनं नैव कृते पंचत्वमाप्नुयात् ॥' इति बादरायणवाक्यान्नैव वधूप्रवेशः कार्यः ॥ १ ॥ अथ द्विरागमने संमुखशुक्रदोषं प्रहर्षिणीछंदसाह - दैत्येज्यो भिमुखदक्षिणे यदि स्थागच्छेयुर्न हि शिशुगर्भिणीनवोढाः । बालजति विपद्यते नवोढा
चेद्वंध्या भवति च गर्भिणी त्वगर्भा ॥ २ ॥
1
दैत्येज्य इति ॥ यदि दैत्येज्यः शुक्रोऽभिमुखदक्षिणे गंतव्यदिगभिमुखे तुर्दक्षिणभागे वा स्थितः स्यात्तदा शिशुर्बालः गर्भिणी गर्भवती नवोढा नूतनपरिणीता चेत् व्रजेत्तदा बालश्चेत् विपद्यते म्रियते नूतनपरिणीता नवोढा चेत् वंध्या अपत्यसंभवरहिता स्यात् । गर्भिणी त्वगर्भा गर्भरहिता स्यात् । गर्भस्राववती भवेत् । यदाह बादरायणः - 'अस्तं गते भृगोः पुत्रे तथा संमुखमागते । नष्टे जीवे निरंशे च नैव संचालयेद्वधूम् ॥ गर्भिण्या बालकेनापि नववध्वा द्विरागमे । पदमेकं न गंतव्यं शुक्रे संमुखदक्षिणे ॥ गुर्विणी स्रवते गर्भ बालो वा मरणं व्रजेत् । नवा वधूर्भवेद्वंध्या शुक्रे संमुखदक्षिणे ॥' यदि शुक्रः पूर्वस्यामुदितः - पूर्वदिशं गंतुः संमुखः, एवमुदीचीं गंतुर्दक्षिणः, पश्चिमां गंतुः पृष्ठे, दक्षिणां गंतुर्वामे स्यात् तदा पूर्वोत्तरे दिशौ न गच्छेत्, किंतु पश्चिमदक्षिणे दिशौ गच्छेत् । यदि पश्चिमायामुदितः शुक्रः- पश्चिमां गंतुः संमुखः, एवं दक्षिणां गंतुः दक्षिणः, पूर्वां गंतुः पृष्ठे, उत्तरां गंतुर्वामः, तदा पश्चिमदक्षिणे दिशौ न यायात्, किंतु पूर्वोत्तरे दिशौ गच्छेत् । 'पृष्ठे भृगौ पुत्रवतीं प्रयाणे कांतां कुलीनां सुभगां करोति । अग्रे सुदुःखं विदधाति शुक्रो वैधव्यशोकौ खलु नास्ति शुक्रे ॥' इति । केचिद्दीपोत्सवप्रतिपदि नक्षत्रादिनियमं विनैव वधूप्रवेशं वांछंति । उक्तं च- - 'अस्तं गते गुरौ शुक्रे सिंहस्थे वा बृहस्पतौ । दीपोत्सव - बलेनैव कन्या भर्तृगृहं विशेत् ॥' इति, तदेतच्छिष्टाचारतो ज्ञेयम् । अत्र
१ मन्मथः=मिथुनम् । २ नास्ति शुक्रे, शुक्रास्ते इत्यर्थः । नास्ति शुक्रः इति पाठे यदि शुको नास्ति नाम अस्तंगतस्तदा वैधव्यशोकौ इत्यर्थः ।