________________
३१०
मुहूर्तचिंतामणिः। . [तत्रापवादाः लग्नशुद्धिमाह बादरायणः-'उपचयगते जीवे भृगौ केंद्रमुपागते । शुद्धे लग्ने शुभाक्रांते गंतव्यं भर्तृमंदिरम् ॥' इति ॥ २॥ __अथ प्रतिशुक्रापवादं मंजुभाषिण्याहनगरप्रवेशविषयाग्रुपद्रवे करपीडने विबुधतीर्थयात्रयोः । नृपपीडने नववधूप्रवेशने प्रतिभार्गवो भवति दोषकन्न हि ॥३॥
नगरेति । नगरप्रवेशे विषयो देशः आदिशब्देन ग्रामः तस्योपद्रवे अन्यराजकृतोपद्रवे सति दुर्भिक्षादिना वोपद्वे सति गंतव्यदिशि प्रतिशुक्रदोषो नास्ति । करपीडने विवाहोद्देशेन यात्रायां सत्यां वा विबुधा देवास्तेषां यात्रा, यथा नगरकोटयात्रा देवयात्रा तीर्थयात्रा प्रयागादिका तयोः । नृपपीडने नृपाद्राज्ञः सकाशात्पीडने पीडायां दंडादिकृतायां सत्यां,नववधूप्रवेशने नूतनपरिणीतायाः कन्यायाः भर्तृगृहप्रवेशे; एतेषामन्यतमसद्भावे प्रतिभार्गवः संमुखशुक्रो दोषकृन्न हि भवति । यदाह बादरायणः-स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नूतनववागमने प्रतिशुक्रो नैव दूषयति ॥' 'एकग्रामे पुरे वापि दुर्भिक्षे दुष्टैविप्लवे । विवाहे तीर्थयात्रायां प्रतिशुक्रं न दुष्यति ॥' इति । नूतनवधूग्रहणादभिगमनं (अन्य?) स्त्रीणां प्रतिशुक्रं यात्रायां महान्दोषः । तद्वाक्यं प्रागुक्तम् ॥३॥ __ अथ प्रौढस्त्रीणां द्विरागमने तथा गोत्रपरत्वेन च प्रतिशुक्रापवादांतरमिंद्रवंशाछंदसाहपित्र्ये गृहे चेत्कुचपुष्पसंभवः स्त्रीणां न दोषः प्रतिशुक्रसंभवः । भृग्वंगिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले तथा॥४॥
पित्र्ये इति॥चेत्पित्र्ये पितुरिदं पित्र्यम् , 'वाय्वृतुपित्रुषसो यत्' इति यत्प्रत्ययः । तस्मिन्पित्र्ये गृहे कुचौ स्तनौ पुष्पमृतुः तत्संभवः स्यात्तदा स्त्रीणां प्रतिशुक्रसंभवो दोषो नास्ति । उपलक्षणत्वाद्भर्तुः सूर्यगुरुशुद्धिराहित्यसंभवोऽपि दोषो नास्तीत्यर्थः । तदुक्तं चंडेश्वरेण-'पित्र्यागारे कुचकुसुमयोः संभवो वा यदि स्यात्पत्युः शुद्धिर्न भवति रवेः संमुखो वाथ शुक्रः । शस्ते लग्ने गुणवति तिथौ चंद्रताराविशुद्धौ स्त्रीणां यात्रा भवति सफला सेवितुं स्वामिसन ॥' इति । वाशब्दाद्गुरुशुद्धिरपि चेन्न भवतीत्यर्थः । अथ भृगुरंगिरा वत्सो वसिष्ठः कश्यपोत्रिश्चैते ऋषयः तेषां कुले वंशे तथा भरद्वाजमुनेः कुले। कोऽर्थः ? भृग्वंगिरोवत्सवसिष्ठकश्यपात्रिवंशोत्पन्नानां तथा भरद्वाजवंशोत्पन्नानामपि प्रतिशुक्रसंभवो दोषो नास्ति । यदाह बादरायणः-'कश्यपेषु वसिष्ठेषु भृग्वत्र्यांगिरसेषु च । भारद्वाजेषु वात्स्येषु प्रतिशुक्रं न दुष्यति ॥' इति । अयं चापवादो यात्रामात्रसाधारणः न द्विरागमने एव, संमतिवाक्ये विशेषानुक्तेः । एवं प्राक्पद्योक्तेऽप्यपवादो ध्येयः । केचिच्छुभमाहुः । यदाह महेश्वरः-'एतेषां प्रतिशुक्रयानमशुभं ये वत्सभृग्वंगिरोभारद्वाजवसिष्ठकश्यपकुलोत्पन्नास्तथाऽत्रेः कुले । दुर्भिक्षे विषयप्लवे च नियतं न स्याद्विवाहे तथा तीर्थानां गमने तथैकनगरे
१ प्रतिशुक्रविचारणा नास्तीति पाठो लिखितपुस्तकेषु । २ राष्ट्रविप्लवे इति पाठः ।