________________
प्रतिशुक्रेऽपवादाः] द्विरागमनप्रकरणम् ।
३१९ ग्रामे च सौम्यं तथा ॥' इति । सोमस्यापत्यं सौम्यो बुधः 'सोमाद्यञ्' इति यञ् । बुधसांमुख्येऽपि भृग्वादिगोत्रोत्पन्नानामपि तथा यानमशुभं नास्ति । चकाराद् दुर्भिक्षाद्युपद्रवसद्भावेऽन्येषामपि यानमशुभं नास्तीत्यर्थः । तच्चिंत्यम् । मूलवाक्यस्यापवादरूपस्यानुपलंभात् । किंच यथा साधारण्येन यस्याकस्यांचिद्दिशि यात्रायां प्राप्तायां शुक्राधिष्ठिता दिनिषिद्धा सा च बादरायणादिवाक्यैरपोह्यते तथा बुधसांमुख्ये गमन निषेधानुक्तेरेतदपवादस्यायुक्तत्वदर्शनात् । ननु-'प्रतिशुक्र प्रतिबुधं प्रतिभौमं गतो नृपः । बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥' इति वसिष्टोक्तिरेव सा बुधसांमुख्यदोषनिषेधबोधिकास्ति । किंच-'कुजाय वृषभं दद्यात्स्वर्ण दद्यादुधाय च । तत्तत्संमुखजो दोषस्तत्क्षणादेव नश्यति ॥' इति बुधसांमुख्यदोषनिराकरणार्थापि तदुक्तिरेवास्ति प्रमाणमिति चेत् । सत्यम् । 'प्रतिशुक्र प्रतिबुधम्' इत्यादिवाक्यैबुंधसांमुख्यमपि दोषावहमेवेति प्रतीयते । अत्रार्थवादोऽप्यभाणि श्रीपतिना'प्रतीदुजं भूमिपतेर्गतस्य नान्ये ग्रहास्त्राणविधौ समर्थाः' इति । त्राणं रक्षणम् । नारदेनापि-प्रतींदुजकृतं दोष हंतुं शक्ता ग्रहा न हि' इति । तत्र गोत्रादिविषयत्वेन परिहारो योऽभिहितः स शुक्रसांमुख्य एव न तु बुधसांमुख्ये । यतो गोत्रपरिहारवाक्यांते 'प्रतिशुक्रं न विद्यते' इत्युक्तम् । ननु-प्रतिशुक्रम्' इत्यादिवाक्योपात्तस्य प्रतिबुधदोषस्याप्ययं परिहारोऽस्तु दोषकथनानंतरमेव तस्याभिधानात् । प्रतिशुक्रपदं तु मुख्यतां सूचयितुमुपात्तं तदभिप्रायेण 'सौम्यं तथेति' महेश्वरोक्तिः साधीयसीति चेन्न । यद्येषोऽभिप्रायोऽभिमतः स्यात्सौम्यं तथेतिवद्गौमं तथेति वक्तव्यं स्यात् । तच्च नोक्तम् । किंच प्रतिशुक्रपदं मुख्यतां सूचयितुमुपात्तमित्युक्तं तदप्ययुक्तम् । कुतः ? शुक्रास्तदोषस्य महत्त्वोक्तेः न तद्विषयकोऽयं गोत्रादिपरिहारः । 'कामं व्रजेद्वा प्रतिशुक्रमस्तंगते च यायान्न जिगीषुरत्र' इति श्रीपत्युक्तेः । शुक्रास्तदोषस्यापवादो बुधानुकूल्यमपि तेनैव-'अस्तंगतेऽप्यास्फुजिति प्रयायाहुधो यदि स्यादनुकूलवर्ती' इति । अनुकूलवर्ती यातव्यदिक्पृष्ठवर्ती । बुधप्रातिकूल्यं तु महादोषावहमेव । तद्वाक्यं प्रागभिहितम् । परंतु बुधास्तः समीचीनोऽसमीचीनो वेति कैरपि वचनं युक्तिर्वा न काचिदभ्यधायि । तस्माद्वाचनिकेऽर्थे न युक्तिः प्रभवेदिति बुधसांमुख्ये गोत्रादिपरिहारो न शिरोमणिपदवीमारोहति । आदिशब्दात् 'स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नूतनवध्वागमने प्रतिशुक्रविचारणा नास्ति ॥ एकग्रामे पुरे वापि दुर्भिक्षे राष्ट्रविप्लवे । विवाहे तीर्थयात्रायां प्रतिशुक्रं न दुष्यति ॥' इत्यादि । तुल्यन्यायत्वाद्भौमसांमुख्येऽपि न वसिष्ठावृषिवचनाऽभावात् । किंतु शुक्रसांमुख्य एव स परिहारः सोऽपि सर्वेषां यात्रामात्रसाधारणः परंतु शिशुगर्भिणीनववधूनां 'अस्तं गते भृगोः पुत्रे' इत्यादि बादरायणवाक्यात्तु विशेषफलावगतिमात्रं तत्रैषां शिश्वादीनां बुधसांमुख्यविचारस्तु दूरापास्त एवेत्यलमतिप्रसंगेनेति शिवम् ॥ ४॥