________________
३२०
मुहूर्तचिंतामणिः । [अन्याधाननिर्णयः द्विरागमनप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
द्विरागमनप्रकरणं समाप्तम् ॥ ८॥ स्पष्टार्थम् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने पुनरागमनप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां
द्विरागमनप्रकरणं समाप्तम् ॥८॥
अथानयाधानप्रकरणम् ९।
गणनायकमाराध्य नीलकंठं गुरुं तथा ।
अग्निहोत्रप्रकरणं व्याख्याति विदुषां मुदे ॥ १ ॥ अर्धाग्याधानप्रकरणं व्याख्यायते । तत्राग्निर्धीयते श्रौतेन स्मार्तेन वा कर्मविशेषेणेत्यन्याधानम् । तत्र विप्रवदंते । केचित्पाणिग्रहणसमये एव अन्याधानमाहुः । अपरे पित्रा भ्रातृभिः सह वा विभागकाल एवेत्याहुः । उक्तं च श्रुतौ-'आवसथ्याधानं दारकाले दायाद्यकाले एकेषाम्' इति पारस्करः। दायाद्यकाले विभागकाले । एतदेवाभिप्रेत्योक्तं महेश्वरेण-'अग्न्याधानं दारकाले विधेयं कैश्चित्प्रोक्तं तच्च दायाद्यकाले' इति । अन्ये वसंतातुपुरस्कारेण वर्णविशेषे आहुः। तदुक्तं श्रुतौ-'वसंते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यो वर्षासु रथकार आदधीत' इति । इतरे तु श्रद्धोदये एवाहुः । एतदप्युक्तं श्रुतौ-'यदहरेवैनं श्रद्धोपरमेत्तदहरेवादध्यात्' इति । एतच्च सोमान्याधानविषयम् । यदाह आपस्तंबः-'सोमेन यक्ष्यमाणो नर्तुं प्रतीच्छेन्न नक्षत्रम्' इति । तत्र पाणिग्रहणकालस्य प्रागुक्तस्वात्तत्क्षणारभ्यमाणान्याधानार्थं न मुहूर्तगवेषणा, एवं पित्रादिभिः सह यस्मिन्काले विभागो जातः तस्मिन्काले यथाकथंचियतीपातभद्रादिदोषरहिते आधान कार्यमेव तदापि उत्तरायणादिकालशुद्ध पेक्षा । तत्रापि यदि प्रतिबंधवशादाधानाभावो जातस्तदा कालशुद्धिर्वक्ष्यमाणविधया विचार्यैव । अथ येषां वर्णानां वसंतावृतवः सोमयागाद्यर्थ नियता एवोक्तास्तेषां यद्यप्युत्तरायणविचारो नास्ति संभवव्यभिचाराभावात् , तथापि शुक्रास्तादिदोषनिवारणार्थ मुहूर्तो गवेष्य एव । येषां तु श्रद्धोदये एवाधानमिति पक्षस्तेषां सोमाधानमेव श्रद्धोदये इति यथाकथंचित्पंचांगशुद्धिर्विचार्या नर्तुनक्षत्रादिप्रतीक्षा। 'शरदि वाजपेयेन यजेत' इति वाजपेयादीनां यागविशेषाणां शरदातुविशेषविहितानामपि सौम्यायनप्रतीक्षामकृत्वा शुक्रास्तादिदोषराहित्यं विचार्यम् ।
१ अथाग्निहोत्रप्रकरणम् इत्यपि कचित्पाठः।