________________
तत्र लग्नशुद्धिः] अश्याधानप्रकरणम् ९ । तदयमत्र निर्णयः संपन्नः । यत्र तु कालनियमेनाधानादि विहितं तदा न मुहूर्तविचारः । यदा तु कालनियमाभावस्तदा मुहूर्तो विचार्य एवेत्यभिसंधायाग्न्याधानसोमयागादिमुहूर्त वसंततिलकावृत्तेनाह
स्यादग्निहोत्रविधिरुत्तरगे दिनेशे
मिश्रध्रुवांत्यशशिशक्रसुरेज्यधिष्ण्ये । रिक्तासु नो शशिकुजेज्यभृगौ न नीचे
नास्तंगते न विजिते न च शत्रुगेहे ॥१॥ स्यादिति ॥ उत्तरगे उत्तरायणगते दिनेशे सूर्येऽग्निहोत्रविधिः स्यात् । यदाह नारदः-'गृहप्रवेशवैवाहप्रतिष्ठामौंजिबंधनम् । मखादिमंगलं कर्म विधेयं चोत्तरायणे ॥' इति । मखस्याग्निहोत्रपूर्वकत्वात्तदारंभोऽपि । विवाह एव वैवाहः। स्वार्थे अण्। प्रतिष्ठा देवतादिप्रतिष्टा। मिश्रेति। मिश्रे कृत्तिकाविशाखे, ध्रुवाणि प्रसिद्धानि, अंत्यं रेवती, शशी मृगः, शक्रो ज्येष्ठा, सुरेज्यः पुष्यः एतेषामन्यतमेषु ऋक्षेष्वग्निहोत्रविधिः स्यात् । यदाह श्रीपतिः-'प्राजापत्ये पूषभे सविदेवे पुष्ये ज्येष्ठास्वंदवे कृत्तिकासु । अन्याधानं ह्युत्तराणां त्रयेऽपि श्रेष्ठं प्रोक्तं प्राक्तनैर्विप्रमुख्यैः ॥' इति । रिक्तास्विति । रिक्ताः चतुर्थीनवमीचतुर्दश्यः,आसु अन्याधानं नो कार्यम् । तदुक्तं दीपिकायाम्-'पुष्योत्तराविशाखासु ज्येष्टांत्याग्निकचंद्रभे । अग्न्याधानमरिक्तासु कार्य वाऽर्ककुजेऽहनि ॥' इति । को रोहिणी । शशीति । चंद्रमंगलगुरुशुक्रेषु नीचगतेषु तथाऽस्तंगतेषु तथा ग्रहांतरैर्विजितेषु तथा शत्रुगृहस्थितेषु अन्याधानं नो कार्यम् । उक्तं च रत्नमालायाम्-'कुजेंदुजीवै रिपुराशिसंस्थैः पराजितैर्नीचगृहोपगैर्वा । अस्तंगतैर्वाग्निपरिग्रहं यः करोति हास्यं विदुषां स याति ॥' इति । कश्यपस्तु शुक्रदोषमप्याह । अत एव मूलपद्ये चतुर्णामभिधानम् ॥ ३॥ अथान्याधाने लग्नशुद्धिं वसंततिलकयाहनो कर्कनक्रझपकुंभनवांशलग्ने
नोऽजे तनौ रविशशीज्यकुजे त्रिकोणे । केंद्रषत्रिभवगे च परैस्त्रिलाभ
षट्खस्थितैनिधनशुद्धियुते विलग्ने ॥२॥ नो कर्केति ॥ कर्कः प्रसिद्धः, नको मकरः, झषो मीनः, कुंभः प्रसिद्धः एतेषामन्यतमे लग्ने नवांशे वा अन्याधानं नो कार्यम् । तथा अब्जे चंद्रे तनौ लग्नस्थे सति चाम्याधानं न कार्यम् । तथा चोक्तं श्रीपतिना-'नके विलग्नेबु. चरे घटे वा तदंशके वाप्यथवा शशांके । आधानकाले द्विजपुंगवानां जातोऽपि निर्वाणमुपैति वह्निः ॥' इति । निर्वाणं नाशम् । नक्रौद्यस्य चांबुचरत्वाभावा
१ वा देवजेऽहनि इति पाठः। २ नवांशकाद्यास्तेषामंबु इति पाठः।