________________
३२२
मुहूर्तचिंतामणिः। [यागकर्तृत्वयोगाः त्पृथग्रहणम्।वराहस्तु नैतन्मन्यते। मकरस्य पश्चिमा, कुंभो मीनश्च जलचराः ख्याताः ॥' इति । अत एवैतषणभयात् स्पष्टमुक्तं महेश्वरेण-'कर्कनऋघटमीनविलग्ने वांशगे तनुगतेऽथ तदीये । लग्नगे कुमुदिनीदयिते वा नाशमेति जनितोऽपि हुताशः॥' इति। लग्नगचंद्रस्योपलक्षणत्वाच्छुक्रोऽपि लग्ने निषिद्धः । यदाह कश्यपः-'यस्यैवाधानलग्नस्थे चंद्रे वा भृगुनंदने । उपैति तस्य जातोऽग्निनिर्वाणं सततं ज्वलन् ॥' इति । रवीति । सूर्यचंद्रगुरुभौमेषु त्रिकोणकेंद्रक्षषत्रिभवगेषु भवमेकादशमेषु स्थानेषु स्थितेषु सत्सु परैर्बुधशुक्रशनिराहुकेतुभिस्त्रिलाभषदखस्थितैस्तृतीयैकादशषष्ठदशमस्थानस्थितैः सद्भिराधानं हितं स्यात् । यदाह श्रीपतिः-'त्रिकोणकेंद्रोपचयेषु सूर्ये बृहस्पतौ शीतकरे कुजे वा। शेषग्रहेषूपचयस्थितेषु धूमध्वजोत्पादनमामनंति ॥' इति । धूमध्वजोऽग्निः । निधनेति। केचिदाहुः-अन्याधानं विलग्ने निधनशुद्धियुते अष्टमस्थाने सकलग्रहराहित्यं निधनशुद्धिः तया युते सत्याधानं शुभं तस्मादष्टमस्थाने यःकश्चिद्रहः स्यात्तदाऽशुभमेव । उक्तं च श्रीपतिना-'चंद्रे पनी मृत्युगे मृत्युमेति क्षिप्रं वयाधायको याजमानः' धाधातोः ‘ण्वुलतृचौ' इति ण्वुल 'मातो युचिण्कृतोः' इति युगागमः । अन्ये त्वेवमाहुः-निधनमष्टमं लग्नं, कस्मानिधनमित्याकांक्षायामाधानकर्तुर्जन्मराशिजन्मलग्नाभ्यामष्टमं लग्नमित्यर्थः । तस्य शुद्धिराहित्यं तदभाव इति यावत् । तेन युते लग्ने इति भावः । यदाह कश्यपः'पंचांगशुद्धिदिवसे चंद्रताराबलान्विते । चंद्रशुद्धियुते लग्ने चाष्टमोदयवर्जिते ॥' इति ॥अत्र व्याख्याद्वये प्रमाणसद्भावाद्यमपि युक्तमिति वयमुत्पश्यामः । तत्र निधनशुद्धिश्च निधनशुद्धिश्च ताभ्यां युते लग्ने इति मूलस्थस्य निधनशुद्धिपदस्य 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषः । यथा 'भ्वर्था वा वादयः स्मृताः' इति तृतीयपक्षव्याख्यानावसरेवादयश्चेति तंत्रावृत्त्येकशेषाणामन्यतमाश्रयणेन पदमंजरीकारादिभिर्वादीनां धातुत्वमुक्तम् ॥ २॥ अथाग्निहोत्रिण आधानलग्नवशाद्यागकर्तृत्वयोगाननुष्टुभाहचापे जीवे तनुस्थे वा मेषे भौमेऽम्बरे धुने । षव्यायेऽब्जे रवौ वा स्याजाताग्निर्यजति ध्रुवम् ॥३॥
चापे इति ॥ जीवे गुरौ चापस्थे धनुःसंस्थे सति तनुस्थे आधानलग्ने धनुराख्ये गुर्वधिष्ठिते सतीत्यर्थः; अयमेको योगः । वा अथवा भौमे मेषलग्ने सति; अयं द्वितीयो योगः। अथवा आधानलग्नाद्दशमस्थानस्थे सप्तमस्थानस्थे वा भौमे सति; योगद्वयमेतत् । अथवा अब्जे चंद्रे षष्ठे तृतीयैकादशस्थानान्यतमस्थानस्थे; योगत्रयमेतत् । अथवा सूर्ये षष्ठतृतीयैकादशान्यतमस्थानस्थे सति; योगत्रयमप्येतत् । एवंविधे लग्ने जाताग्निः अग्निहोत्रकर्ता स्यात् भवेत् ध्रुवं निश्चयेन यजति ज्योतिष्टोमादियागं करोतीत्यर्थः । उक्तं च श्रीपतिना'लग्नस्थे धनुषि गुरावथ क्रिये वा भूसूनौ दशमगतेऽथ सप्तमे वा । तिग्मांशी
१ अत्र यद्यपि 'कुंभ' इति पाठो लिखितादर्शेष्वपि दृश्यते तथापि वराहग्रंथे ‘मकरस्य पश्चिमार्थो खेयो मीनश्च' इत्येवोपलंभात् चिंत्योऽयं टीकाग्रंथः ।