________________
राजाभिषेके कालनिर्णयः] राजाभिषेकप्रकरणम् १० ।
३२३ सहजषडायगे विधौ वा जाताग्निर्यजति न संशयं द्विजेंद्रः ॥' इति । केचिदेवमाहुः-ध्रुवं निश्चितं निरंतरमिति यावत् , यजति देवतोद्देशेनावदानत्यागो यागस्तं करोति । निरंतरमग्निहोत्रकर्मकर इत्यर्थः । यदाह कश्यपः'लग्नस्थे चापगे जीवे मेषे वा सप्तकर्मगे। कुजेऽर्के त्रिषडायस्थे चंद्रे वाग्निवलत्यलम् ॥' इति शिवम् ॥ ३॥
अथाग्निहोत्रप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
नवममम्याधानप्रकरणं समाप्तम् ॥ ९॥ स्पष्टार्थम् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्यानेऽग्निपरिग्रहप्रकरणं संपूर्णतामध्यगात् ॥ १॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विर- . चितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायामन्या
धानप्रकरणं समाप्तम् ॥ ९॥
अथ राजाभिषेकप्रकरणम् १०।
गौरीतनयमाराध्य गोविंदेन सतां मुदे।
राजाभिषेचनाध्यायः सम्यग्व्याख्यायतेऽधुना ॥ १ ॥ अथ राजाभिषेकप्रकरणं व्याख्यायते । तत्र वैदिकेनाभिषेकाख्येन विशिष्टकर्मणा राजशब्दवाच्यपुरुषसंस्कारविशेषो राजाभिषेकशब्देनोच्यते । तत्र तन्मुहूर्त वक्तुकामः कालशुद्धिं तावदिंद्रवंशयाह- .. राजाभिषेकः शुभ उत्तरायणे गुर्विदुशुऊरुदितैलान्वितैः । भौमार्कलग्नेशदशेशजन्मपै! चैत्ररिक्तारनिशामलिम्लुचे॥१॥
राजाभिषेक इति ॥ उत्तरायणगते सूर्ये सति तथा गुर्विदुशुऊरुदितैर्बलान्वितैः बृहस्पतिचंद्रशुक्रैरुदितैः सद्भिः भौमसूर्यलग्नेशदशेशजन्मलग्नस्वामिभिः बलान्वितैः सद्भिः राज्ञोऽभिषेकः शुभः शुभफलप्रदः स्यात् । यदाह कश्यपः'अथातः संप्रवक्ष्यामि भूपानामभिषेचनम् । सौम्यायने सिते जीवे नास्तगे न च वृद्धगे॥' इति। ननु 'गीर्वाणांबुप्रतिष्ठा-' (५।२६) इत्यादिनाप्राक् दक्षिणायननिषेधादेवोक्तत्वात् शस्तानां प्रयोज्यादिना च गुरुशुक्रादिदोषरहिते काले भूपाभिषेको ज्ञास्यत एव किमनेन पुनरुक्तग्रंथेन ? न च कश्यपादिभिरुक्तमिति कृत्वो
१ अग्निहोत्रप्रकरणम् इति पाठः ।