________________
३२४
मुहूर्तचिंतामणिः। [तत्र निषिद्धमासादि क्तमिति वाच्यम् । तैस्तु सामान्यप्रकरणस्याकृतत्वात् किंतु तत्तत्कृत्ये विशेषाभिधानमेव कृतम् । उच्यते-'गीर्वाणांबुप्रतिष्ठा' (५।२६) इत्यादिना 'वाप्यारामतडाग' (२०४६) इत्यादिना च सामान्यत एषु कृत्येषु दोषराहित्यमुक्तम् । तत्र कस्यचिदेवं भ्रांतिः स्यात्-यदि दक्षिणायने शुक्रास्तादिदोषरहिते शुभं कर्म वाप्या. रामादिकार्य शुक्रास्तादिदोषसहिते उत्तरायणेऽपि कार्यमिति, तन्निरासार्थमाह'राजाभिषेकः शुभ उत्तरायणे गुर्विदुशुक्ररुदितैर्बलान्वितैः' इति । 'सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत्' इत्यादिदोषाणां 'मगधे गौडदेशे' इत्यादिना देशभेदकृतपरिहारस्य सुवचत्वादिति न तेषां पुनरुक्तिः। ननु-'सदा कृतयुगं चात्र सदा चैवोत्तरायणम् । न ग्रहास्तोदयकृतो दोषो विश्वेश्वरालये ॥' इत्यादिभिः व्यासवाक्यैः शुक्रास्तादिदोषसहिते उत्तरायणेऽपि कार्यमिति, तन्निरासार्थमाह 'राजाभिषेकः शुभ उत्तरायणे गुर्विदुशुऊरुदितैर्बलान्वितैः' इति, 'सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत्' इत्यादिदोषाणामपि वाराणस्यादिदेशभेदेन परिहारसत्त्वात् किमियमुक्तिरिति चेन्न । काशीखंडे तीर्थयात्राप्रस्तावात्तद्विषय एवापवादः, तेन वाराणस्यादावल्पदिनस्थानोः पुंसः कोटिहोमदेवप्रतिष्ठादिशुभकर्माणि सुखेन स्युः । बहुदिनस्थानोः पुनरखिलदोषराहित्य एव स्युः । न तु मकरस्थगुर्वादौ मगधदेशहानार्थमेव कर्तव्यावश्यं पुनरुक्तिः । सत्यं न कृतेत्येव । वस्तुतस्तु दोषाविस्मरणार्थमेतावत्येव पुनरुक्तिः। न चैतावद्दोषहानमेवावश्यकं, विवाहप्रकरणोक्तानां वेधादिदोषाणामपि निरासस्यावश्यकत्वात् । उक्तं च वसिष्ठेन-'तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम् ॥' इत्यलमति. प्रसंगेन । बलान्वितैः बलं सद्हाधिष्ठितत्वं तेनान्वितैः गुर्विदुशुक्रैः सभी राजाभिषेकः शुभः । उक्तं च वसिष्ठेन-'मूलत्रिकोणस्वगृहोच्चमित्रगृहस्थितैर्वापितदंशसंस्थैः । शुभे विलग्ने सततं ग्रहेंद्रा दिशंति लक्ष्मी विपुलां च कीर्तिम् ॥' इति । अर्थान्नैर्बल्यैर्ग्रहाणामशुभं स्यात्तदप्युक्तं तेनैव-'स्वनीचगैः शत्रुगृहोपगैर्वा तदंशसंस्थैः स्वगृहोपगैर्वा । पापोदये शोकभयं त्वकीर्ति दिशंति राज्ञां भृशमंतरायम् ॥' इति । भौमेति । भौमाकौं प्रसिद्धौ । लग्नेशो जन्मलग्नस्वामी, दशेशौ वर्तमानजातकीयमहादशांतर्दशास्वामिनौ, जन्मपो जन्मराशिस्वामी; एतैरपि बलान्वितैः सद्भी राजाभिषेकः शुभः। बलान्वितत्वमधुना व्याकृतमेव । यदाह वसिष्ठः-'माधानजन्मेशदशाधिनाथरवींदुभौमेज्यसितैर्बलिष्ठैः । उत्पातदोषादिविवर्जितेषु पदं स्थिरं स्थाच नराधिपानाम् ॥' इति । आधानं च जन्म जन्मलग्नजन्मराशी, अनयोरीशावाधानजन्मेशौ । यदाह श्रीपतिः'विलग्नजन्मेशदशाधिनाथमार्तंडधात्रीतनयैर्बलिष्ठैः। गुर्विदुशुक्रैः स्फुरदंशुजालैमहीपतीनामभिषेक इष्टः ॥' इति । नो चैत्रेति । चैत्राख्यो मासः, रिक्ताः ४।९।१४ तिथयः प्रसिद्धाः, आरो भौमवारः, निशा रात्रिः, मलिम्लुचोऽधिकमासः; एषु राजाभिषेको न शुभः । यदाह चंडेश्वरः-'नाभिषेकः शुभो वाच्यो नृपे चैत्रेऽधिमासके । न भूसुते प्रसुप्ते च विष्णौ रिक्तासु रात्रिषु ॥' वसिष्ठेन बुधवारस्यामावास्यायाश्च निषेध उक्तः । स यथा-'रिक्तास्वमायां