________________
वेधदोषः ]
विवाहप्रकरणम् ६ |
शंक्य समाहितम् - "पाद एव न शुभः शुभग्रहैर्विद्ध इत्यखिलशास्त्रसंमतम् । क्रूरविद्धभयुतं न शोभनं शोभनेषु गदितं न पादतः ॥' इति । नारदः-'पादमेव शुभैर्विद्धमशुभैर्नैव कृत्स्नतः ।' इति । कश्यपोऽपि - 'क्रूरविद्धं युतं धिष्ण्यं क्रूराक्रांतं च कृत्स्नभम् । मणिहेममयं हर्म्यं भूताक्रांतमिव त्यजेत् ॥' इति । कृत्स्नभं=सकलनक्षत्रम् । तस्मात्क्रूरग्रहविद्धे संपूर्णनक्षत्रत्यागः शुभविद्धे चरणत्याग इति सिद्धांत: । तत्र विवाहे पंचशलाकावेध एव । यदाह वसिष्ठः'पंचशलाकाचक्रे पाणिग्रहणे भवेधविधिरुक्तः । शस्तः शुभमित्रकृतः सप्तशलाकाज इतरत्र ॥' इति । श्रीपतिः - 'वधूप्रवेशने दाने वरणे पाणिपीडने । वेधः पंचशलाकाख्योऽन्यत्र सप्तशलाककः ॥' इति ॥ ५४ ॥
अथ केचित् सप्तशलाकाचक्रेऽपि वेधमाहुः । तदर्थं चक्रन्यासं विनैव वेध - दोषं शार्दूलविक्रीडितेनाह
शाक्रेज्ये शतभानिले जलशिवे पौष्णार्यम वसु
द्वीशे वैश्वसुधांशुभे भगे सार्पानुराधे तथा । हस्तो पांतिमभे विधातृविधि मूलादिती त्वष्ट्रभा
२७७
जांघ्री याम्यमधे कृशानुहरिभे विद्धेऽद्रिरेखे मिथः ॥ ५५॥ शाक्रेति ॥ अद्विरेखे सप्तशलाकाख्ये चक्रे शाक्रेज्ये ज्येष्ठापुष्यनक्षत्रे मिथः परस्परं ग्रहाधिष्टितत्वेन विद्धे ज्ञेये । एवं जलशिवे पूर्वाषाढा विद्धे ज्ञेये । एवं सर्वत्र व्याख्येयम् । वैश्वसुधांशुभे= उत्तराषाढामृगशिरसी । हयभगे = अश्विनीपूर्वाफल्गुन्यौ । उपतिमभं= अंत्यस्य समीपमुपांतिमम् उत्तराभाद्रपदा । अन्य स्पष्टम् । अत्र मूलवाक्यं स्वरोदयस्थयज्ञोपवीतप्रकरणेऽभिहितम् । चक्रोद्धारो व्यवहारसमुच्चयेऽपि - 'सप्त सप्त विनिपात्य रेखिकास्तिर्यगूर्ध्वमथ कृत्तिकादिकम् । लेखयेदभिजिता समन्वितं चैकरेखखगमेन विध्यते ॥' इति । दीपिकायाम् - 'यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवा विवाहे । उद्वाहवस्त्रेण तु संवृतांगी श्मशानभूमिं रुदती प्रयाति ॥' तथा च भोजः - 'विद्धे सप्तशलाकाख्ये विधवा लग्नवाससा । पुनर्यात्यचिरानारी मुखाम्नौ मुखचंद्रिकाम् ॥' वैधव्यं च नक्षत्रसंख्यातुल्याब्दैर्भवति । तदुक्तं वराहेण - 'नक्षत्रजमुद्वाहे फलमब्दैस्तारकामितैः सदसत्' इति । अत्रापि तुल्यन्यायत्वात्क्रूरवेधे संपूर्ण नक्षत्रं त्याज्यम् । शुभग्रहवेधे पादस्त्याज्य इति ध्येयम् । नन्वत्र प्रागुक्तहेतोरष्टावेव नक्षत्रयुग्मानि वाच्यानि, किमर्थं चतुर्दशयुग्मानामभिधानम् ? उच्यते, - 'सप्तशलाकाज इतरत्र' इति वचनात्सकलशुभकर्मसु विचार्यमाणत्वादेतावतामुक्तिः । 'भुक्तं भोग्यं तथाक्रांतं विद्धं पापग्रहेण च । शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः ॥ ' इति स्वरोदयेऽपि सामान्यतोऽभिधानात् ॥ ५५ ॥
१ ‘विद्धे कुभृद्रेखिके' इति पाठांतरम् । २४ मु० चि०