________________
२७६
मुहूर्तचिंतामणिः। [प्रत्येकवेधफलानि चतुर्थचरणः श्रुतेः श्रवणस्य पंचदशांशो मिलित्वाऽभिजिदोगः स्यात् । यदाह वसिष्ठः-'अभिजिगभोगमेतद्वैश्वेदेवांत्यपादमखिलं तत् । माद्याश्चतस्रो नाड्यो हरिभस्यैतञ्च रोहिणीविद्धम् ॥' प्रयोजनमप्यधुनैव वक्ष्यति ॥ ५३॥
अथ वेधदोषं पंचशलाकाचक्रोद्धारनिरपेक्षं स्पष्टार्थ शार्दूलविक्रीडितेनाहवेधोऽन्योन्यमसौ विरिंच्यभिजितोर्याम्यानुराधक्षयो
विश्वंद्वोर्हरिपित्र्ययोग्रहकृतो हस्तोत्तराभाद्रयोः । खातीवारुणयोर्भवेनिक्रतिभादित्योस्तथोपांत्ययोः
खेटे तत्र गते तुरीयचरणाद्यो; तृतीयद्वयोः ॥५४ ॥ वेध इति ॥ विरंचिः रोहिणी, रोहिण्यभिजितोप॑हैः क्रूराक्रूरैः कृतो वेधोऽन्योन्यं परस्परं भवेत् । रोहिणीस्थे ग्रहे अभिजिद्विद्धः अभिजित्स्थे रोहिणी विद्वेत्यर्थः । एवं सर्वत्र व्याख्येयम् । पदानि स्पष्टार्थानि । यदाह नारदः-'तिर्यक्पंचोर्ध्वगाः पंच रेखे द्वे द्वे च कोणयोः। द्वितीयशंभुकोणेअग्निधिष्ण्यं चक्रेऽत्र विन्यसेत् ।भान्यतः साभिजिन्त्येके रेखाखेटेन विद्धभम् ॥' इति । चक्रोद्धारो यथा-'चक्रे तस्मिन्नेकरेखास्थितेन तद्विखर्भ खेचरेण प्रदिष्टम् । क्रूरैर्विद्धं सर्वधिष्ण्यं विवयं सौम्यैर्विद्धं नाखिलं पाद एव ॥' इति । नन्वष्टाविंशतिनक्षत्राणि चक्रे तत्र द्वयोः परस्परवेधे चतुर्दशयुग्मानि वक्तव्यानि स्युः, कथमष्टावेवाभिहितानि ? उच्यते-विवाहे ह्येकादश नक्षत्राणामेव प्राशस्त्याभिधानात्तद्वेधोपयोगीन्येतावंत्येव युग्मानि संभवंतीति तावतामेवाभिधानम् । अत एव दैवज्ञमनोहरे-'रोहिण्यभिजितोर्मूलादित्ययोर्मुगवैश्वयोः । रेवत्युत्तरफाल्गुन्योर्मघाश्रवणयोर्भवेत् ॥ हस्तोत्तराभाद्रयोश्च स्वातीवारुणयोर्मिथः । अनुराधाभरण्योश्च वेधोऽयं पंचरेखजः ॥' इति । वराहीयविवाहपटले प्रत्येकवेधफलानि-रविवेधे वैधव्यं पुत्रविनाशं करोति कुजवेधः। वंध्या पंडितवेधे दीक्षाकरणं करोति गुरुवेधः। भृगुसुतवेधे पुत्री दासी रविजेंदुराहुसंभूते ॥' इति । पंडितो बुधः । दीक्षाकरणं प्रवाजिकात्वम् । चरणवेधमाह-खेट इति । तत्र तस्मिनक्षत्रे गते विद्यमाने खेटे ग्रहे सति यदि स चतुर्थपादेऽस्ति तदा परनक्षत्रस्य प्रथमपादे वेधः। यदि तृतीयपादे तदा द्वितीयचरणस्य वेधः। एवं यदि द्वितीयपादे तदा तृतीयपादस्य वेधः। यदि प्रथमपादे तदा चतुर्थपादस्य वेध इत्यर्थः । यदाह वसिष्ठः-'अतोऽन्त्यपादमादिगो द्वितीयगस्तृतीयकम् । तृतीयगो द्वितीयकं चतुर्थगस्तु चादिमम् । भिनत्ति वेधकृद्रहो न चान्यपादमादरात् ॥' एतद्यद्यपि शुभाशुभग्रहसाधारणं प्रतीयते तथापि सौम्यग्रहपरं द्रष्टव्यम् । यतो वसिष्टेनैव खाजूरदोषाभिधानावसरे-विषप्रदिग्धेन हतस्य पत्रिणा मृगस्य मांसं शुभदं क्षतादृते । तथैव पादो न शुभोऽवशिष्टाः पादाः शुभाश्चेति पितामहेन ॥' इत्या