________________
२७५
विवाहे वेधदोषस्त्याज्यः] विवाहप्रकरणम् ६ ।
अथावसरप्राप्तान्दुर्मुहूर्तान् भुजंगप्रयातेनाहरवावर्यमा ब्रह्मरक्षश्च सोमे कुजे वह्निपित्र्ये बुधे चाभिजित्स्यात् । गुरौ तोयरक्षौ भृगौ ब्राह्मपित्र्ये शनावीशसापौ मुहूर्ता निषिद्धाः॥
रवाविति ॥रवेर्वारेऽर्यमा लक्षणया अर्यमस्वामिकश्चतुर्दशसंख्याको मुहूर्ता निषिद्धः । एवं सोमवारे ब्रह्मरक्षः । द्वंद्वैकवद्भावः । ब्रह्मरक्षःस्वामिको मुहूतौं निषिद्धौ । एवं सर्वत्र व्याख्येयम् । पदानि स्पष्टार्थानि । ईशो महादेवः, यदाह नारदः-'अर्यमा राक्षसब्राह्मौ पित्र्याग्नेयौ तथाभिजित् । राक्षसाप्यौ ब्राह्मपित्र्यौ भौजंगेशाविनादिषु ॥ वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मणि ॥' ननु दुर्मुहूर्तोपलक्षितास्तिथ्यंशाः 'सूर्ये षट्स्वरनाग' (१।३८) इत्यादिनोक्ता इति पुनरत्राभिधानमयुक्तमिति चेत् । सत्यम् । अग्रे कुलिका अपि वक्तव्याः संति तत्पुनरुक्तिपरिहारावसरे समाधास्ये ॥ ५२ ॥ अथ वेधदोषं विवक्षुर्विहितनक्षत्रादिकमभिजिन्मानं च प्रहर्षिण्याहनिर्वेधैः शशिकरमूलमैत्र्यपित्र्य
ब्राह्मांत्योत्तरपवनैः शुभो विवाहः । रिक्तामारहिततिथौ शुभेऽह्नि वैश्व
प्रांत्यांघ्रिश्रुतितिथिभागतोऽभिजित्स्यात् ॥ ५३॥ निर्वेधैरिति॥ मृगशिरोहस्तमूलानुराधामघारोहिणीरेवत्युत्तराफल्गुन्युत्तराषाढोत्तराभाद्रपदास्वातीनक्षत्रैः निर्वेधैः वेधाख्यदोषरहितैः विवाहः शुभः शुभफलप्रदः। यदाह वसिष्ठः-स्वातीमघायां निर्ऋतौ ध्रुवांत्यमित्रंदुहस्तेषु च कन्यकानाम् । पाणिग्रहस्त्विष्टफलप्रदः स्यादविद्धभेष्वेव गुणान्वितानाम् ॥' इति । नारदोऽपि–'पौष्णधान्युत्तरामैत्रमरुञ्चंद्रार्कपित्र्यभैः। समूलभैरविबैस्तैः स्त्रीकरग्रह इष्यते ॥' इति । स्त्रीग्रहणं मुख्यत्वसूचनार्थम् । गृहस्थाश्रमस्य तदायत्तत्वात् । रिक्तेति । रिक्तामाः प्रसिद्धाः, आभिर्वर्जिततिथिषु शुभेऽह्नि शुभग्रहवासरेऽपि विवाहः शुभः । यदाह वसिष्ठः-'शुक्लद्वितीयादित एव कृष्ण पक्षे दशम्यंतगताः प्रशस्ताः। तास्वष्टमी स्कंदगणेशदुर्गाश्चतुर्दशी चापि तिथिर्विवा ॥ वाराः प्रशस्ताः शुभखेचराणां सूर्यार्किवारौ खलु मध्यमौ तौ । त्याज्यः सदा भूमिसुतस्य वारः कामार्कतिथ्योरपि तौ प्रदोषौ ॥' इति । तौ सूर्यार्किवारौ त्रयोदशीद्वादश्योः प्रदोषौ प्रकृष्टदोषावित्यर्थः । गणेशश्चतुर्थी । अत्र यदि विचारितविवाहदिनमारभ्य चतुर्थीकर्मपर्यंतं पित्र्याद्यावश्यकश्राद्धदिनममावास्या वा भवति तदा विवाहो न कार्यः। उक्तं च-'विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिन दर्शदिन यदि स्यात् । वैधव्यमाप्नोति तदाशु कन्या जीवेत्पतिश्चेदनपत्यता स्यात् ॥' इति । अन्यच्च-'विवाहमध्ये यदि तत्क्षयाहं श्रुत्वाऽश्रुमुख्याः पितरो न यांति। वृत्ते विवाहे परतस्तु कुर्याच्छ्राद्धं स्वधाभिर्न तु दूषयेत्तम् ॥' इति । अथ वैश्वेति । वैश्वमुत्तराषाढा, तस्यांत्यांघ्रि