________________
२७४
मुहूर्तचिंतामणिः। [रात्रिमुहूर्ताः ज्योतिःसागरे–'विवाहव्रतचूडासु गृहारंभप्रवेशयोः । यात्रादिशुभकार्येषु विघ्नदा विषनाडिकाः ॥' इति । अस्य परिहारमाह दैवज्ञमनोहरे गुरुः'चंद्रो विषघटीदोषं हंति केंद्रत्रिकोणगः । लग्नं विना शुभैदृष्टः केंद्रे वा लग्नपस्तथा ॥' इति । फलप्रदीपे-'विषनाड्युत्थितं दोष हंति सौम्यसंगः शशी। मित्रदृष्टोऽथ वा स्वीयवर्गस्थो लग्नपोऽपि च' इति ॥ ४७-४९ ॥ अथ दुर्मुहूर्तदोषं विवक्षुरादौ दिवामुहूर्तान्मालिनीछंदसाह
गिरिशभुजगमित्राः पित्र्यवस्खंबुविश्वे___ऽभिजिदथ च विधातापींद्र इंद्रानलौ च । निर्ऋतिरुदकनाथोऽप्यर्यमाथो भगः स्युः
क्रमश इह मुहूर्ता वासरे बाणचंद्राः ॥ ५० ॥ गिरिशेति ॥ मत्र बाणचंद्रा इत्युक्तेः मुहूर्तस्य पार्थक्येन लक्षणं नोक्तम् । गिरिशो महादेवः, भुजगः सर्पः, मित्रः सूर्यविशेषः, पित्र्यवखंबुविश्वे प्रसिद्धाः, पितरश्चतुर्थमुहूर्तस्वामिनः इत्यपेक्षितम् छंदोऽनुरोधात्तथोक्तिः । पित्र्यमिति नक्षत्राभिधानमयुक्तं प्रतिभाति । अथवा नक्षत्रतदीशयोरभेदोपचारात्स्वामिनिवृत्तिः । अष्टमोऽभिजित् , ततो विधाता ब्रह्मा, इंद्रः इंद्रानलौ; अत्र समुदितयो.
ासज्यवृत्तिदेवतात्वं । इंद्रस्य अल्पान्तरत्वात्पूर्वनिपातः । निर्ऋती राक्षसः, उदकनाथो वरुणः, अर्यमा भगश्वेमौ सूर्यविशेषौ; इत्येते बाणचंद्राः पंचदश वासरे दिवसे मुहूर्ताः स्युः । यदाह नारदः-'दिवामुहूर्ता रुद्राहिमित्राः पितृवसूदकम् । विश्वविधातृब्रह्मेद्रा इंद्राम्यसुरतोयपाः ॥ भर्यमा भगसंज्ञश्व विज्ञेया दशपंच च ॥' इति ॥ ५० ॥ अथ रात्रिमुहूर्ताननुष्टुभाह
शिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवको ।
विष्ण्वर्कत्वष्टमरुतो मुहूर्ता निशि कीर्तिताः ॥ ५१ ॥ शिव इति॥प्रथममुहूर्तस्वामी शिवः, ततोऽजपादादष्टौ भेशा नक्षत्रस्वामिनो मुहूर्तेशाः । यथा-अजपादः अहिर्बुध्न्यः पूषा अश्विनौ यमः अग्निब्रह्मा सोम इत्यष्टौ, ततो दशमेशोऽदितिः, जीवको गुरुः । स्वार्थे कः । विष्ण्वत्वष्ट्रमरुतः प्रसिद्धाः । एते निशि मुहूर्ताः प्रकीर्तिताः । मुनिभिरिति शेषः । यदाह नारदः-'ईशाजपादहिर्बुध्न्यपूषाश्वियमवह्नयः।धातृचंद्रादितीज्याख्यविष्ण्वकत्वष्टवायवः ॥' इति । मुहूर्तलक्षणं कश्यपेनोक्तम्-'अह्नः पंचदशो भागो मुहूर्तोऽथ तथा निशि' इति । प्रयोजनमाह नारदः-'यस्मिन्नुले हि यत्कर्म कथितं निखिलं च यत् । तदैवत्ये तन्मुहूर्ते कार्य यात्रादिकं सदा ॥' इति ॥ यात्रेत्युपलक्षणं देवस्थापनाचं कार्यम् । 'धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य' इति ग्रंथकृताप्युक्तम् ॥ ५१ ॥