________________
तिथि- वारविषनाडिकाः ] विवाहप्रकरणम् ६ | मनो १४ द्विदैवानिलसौम्यशाकभे कुपक्षतः २१ शैवकरेऽष्टितो १६ जभे । युगाश्वितो २४ बुध्यभतोययाम्यभे
खचंद्रतो १० मित्रभवासवश्रुतौ ॥ ४८ ॥ मूलेऽङ्गबाणा ५६ द्विषनाडिकाः कृता
वर्ज्याः शुभेऽथो विषनाडिका ध्रुवाः । निम्ना भभोगेन खतर्क ६० भाजिताः
२७३
स्फुटा भवेयुर्विषनाडिकास्तथा ॥ ४९ ॥
खरामेति ॥ मनोरिति ॥ मूले इति ॥ रेवतीपुनर्वसुकृत्तिकामघानक्षत्रेषु खरामतः त्रिंशद्वटिकोत्तरं कृताश्चतस्रो घटिका विषनाडिकाः शुभे कार्ये वर्ज्याः स्युरिति तृतीय श्लोकेनान्वयः । एवं सर्वत्र व्याख्येयम् । के रोहिण्यां, कृतेर्विंशतः, अजभं पूर्वाभाद्रपदायाम् । अन्यानि पदानि स्पष्टानि । तदेवं षष्टिघटीरूपे नक्षत्र भोगे ध्रुवकाश्चतस्रो विषनाडिकाश्च प्रोक्ताः । न्यूनाधिकत्वे तु स्पष्टीकरणमुच्यते । अथो इति । विषनाडीनां ध्रुवाः खरामत इत्येवमादयो नक्षत्रभोगेनेष्टेन निघ्नाः खतकैः षष्ट्या भाजितास्ततो विषनाडिकाध्रुवाः स्पष्टा भवेयुः । तथा विषनाडिका अपि भभोगेन निघ्नाः षष्ट्या भाज्याः लब्धाः स्पष्टा भवेयुरित्यर्थः। अत्रोपपत्तिः - त्रैराशिकेन यदि घटीषष्ट्यात्मकभभोगेनेमे ध्रुवका इमाश्चतस्रो विषनाडिकाश्च लभ्यंते तदेष्टभभोगेन किमिति ? तत्र ध्रुवा विषनाडिकाश्चेष्टभभोगेन गुण्याः षष्ट्या भाज्या इति फलितम् । यदाह कश्यपः - 'वियद्वाणा वेददस्राः खरामा व्योमसागराः । वेदचंद्राश्चंद्रदस्राः खरामा व्योमबाहवः ॥ नेत्राग्नयो व्योमगुणाः शून्यदस्रा गजेंदवः । क्ष्माबाहवो वियद्दस्राः शक्राश्चंद्राः खभूमयः ॥ वेदचंद्रास्तर्कबाणा वेददस्राः खबाहवः । व्योमेंदवो व्योमचंद्रा धृतयस्तर्कभूमयः ॥ वेदाश्विनः खरामाः स्युर्दवर्क्षाद्वटिकाः क्रमात् । आभ्यः परस्तात्क्रमशश्चतस्रो विषनाडिकाः । ऋक्षाद्यं तद्वटीनिघ्नाः षष्टिभक्ताः स्फुटाः स्मृताः ॥ विषनाडीदोषदुष्टं लग्नं सर्वगुणान्वितम् । शुभैः सर्वैश्च संयुक्तमपि पंचेष्टकं त्यजेत् ॥' इति । वसिष्ठः - 'कुर्वंत्युद्वाहितां कन्यां विधवां वत्सरत्रयात् । अन्यस्मिन्मंगले ताश्च निधनं चाथ निर्धनम् ॥' इति । ताः विषनाडिकाः । अथ प्रसंगात् ग्रंथांतरोक्तास्तिथिवार - विषनाडिकाः प्रोच्यंतेऽस्माभिः । दैवज्ञमनोहरे - 'तिथी १५ षु ५ नागा ८ द्वि ७ गिरी ७ षु ५ वारिधि ४ र्गजा ८ द्वि ७ दिकू १० पावक ३ विश्व १३ वासवाः १४ । मुनी ७ भ ८ संख्या प्रथमातिथेः क्रमात्परं विषं स्याद्वटिकाचतुष्टयम् ॥ नखा २० द्वयं २ द्वादश १२ दिकू १० च शैला ७ बाणाश्च ५ तत्त्वानि २५ यथाक्रमेण । सूर्यादिवारेषु परं चतस्रो नाड्यो विषं स्यात्खलु वर्जनीयम् ॥'
'