________________
२७२
मुहूर्तचिंतामणिः । [द्वादशभवन-विषघटीदोषौ कश्यपः-'जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ । जन्मराश्यष्टम:स्थदोषो नश्यति भावतः ॥' इति ॥ ४४ ॥ ___ अथोत्तरा|क्तमेवार्थ स्पष्टमुपजातिकयाहमीनोक्षकर्कालिमृगस्त्रियोऽष्टमं लग्नं यदा नाष्टमगेहदोषकृत् । अन्योन्यमित्रत्ववशेन सा वधूभवेत्सुतायुगृहसौख्यभागिनी ४५
मीनेति ॥ उक्षा वृषः, स्त्री कन्या, अन्ये प्रसिद्धाः; एते राशयो यद्यष्टमलग्नं स्युः; यथा-सिंहान्मीनः तुलातो वृषः, धनुषः कर्कः मेषाद्वृश्चिकः मिथुनान्मकरः कुंभात्कन्याष्टमलग्नं तदाष्टमगेहदोषकृन्न भवेत् । कुत इत्यत आहअन्योन्येति । प्रागुक्तपरस्परप्रीतिवशेनेदं चोपलक्षणं मेषवृश्चिकयोस्तुलामकरयोरैकाधिपत्यात् । एवं सति सा वधूः परिणीता कन्या सुतायुर्गृहसौख्यभागिनी स्यात् । उक्तं च-'झषकुलीरवृषालिमृगांगनाजननराशिविलग्नगृहाष्टमाः। शुभफला भृगुणा कथितास्तयोरधिपती सुहृदौ हि परस्परम् ॥' इति । परिहारांतरमप्याह गुरुः–'लग्नादष्टमराशीशः केंद्रगः शुभवीक्षितः । यद्यष्टमगतस्योक्तदोषमाशु व्यपोहति । रंधेशः स्वशुभांशस्थस्तुंगस्वक्षेत्रमित्रगः । अष्टमस्थानदोषो हि विनश्यति न संशयः ॥' इति ॥ ४५ ॥ ___ अथाष्टमलग्नदोषप्रसंगाजन्मराशिजन्मलग्नाभ्यामष्टमेशस्य तदंशस्य च लग्नस्थितत्वदोषं तथा द्वादशभवनदोषं कुसुमविचित्राछंदसाहमृतिभवनांशो यदि च विलग्ने तदधिपतिर्वा न शुभकरः स्यात् । व्ययभवनं वा भवति तदंशस्तदधिपतिवा कलहकरः स्यात् ४६
मृतीति ॥ अष्टमभवननवांशो यदि विलग्ने स्यादथवाष्टमभवनस्वामी विलग्ने स्यात्तदा शुभकरो न स्यात् । यदाह कश्यपः-'दंपत्योरष्टमे लग्ने राशौ वापि तदंशके । तदीशे वा लग्नगते तयोर्मृत्युर्न संशयः ॥' इति । अथ व्ययभवनं जन्मलग्नजन्मराशिभ्यां द्वादशं भवनं; अथवा व्ययांशोऽथ वा व्ययस्वामी यदि लग्ने स्यात्तदा कलहकृत्स्यात् । उक्तं च कश्यपेन-'तथैव द्वादशे लग्ने तदंशे वा तदीश्वरे। विवाहलग्नगे नैःस्व्यं नित्यं स्यात्कलहो द्वयोः ॥' इति । नारदेनापि-'दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः। अर्थहानिस्तयोस्तस्मात्तदंशस्वामिनं त्यजेत् ॥' इति ॥ ४६ ॥ अथ विषघटीदोषं वंशस्थाभ्यामिंद्रवज्रया चाहखरामतों ३० ऽत्यादितिवह्निपित्र्यभे .
खवेदतः ४० के रदत ३२ श्च सापेभे । खबाणतो ५० श्वे धृतितो १८ र्यमांबुपे
कृते २० भगत्वाष्ट्रभविश्वजीवभे ॥४७॥